SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥१७२ ॥ वैदर्भीजानिना राज्यमलंकृत्य निजं तदा । अरुषा कूबरश्चक्रे पूर्ववद्यौवराज्यभाक् ।। १०५९ ।। नलः स्वं राज्यमासाद्य दवदंतीयुतस्तदा । कोशलानगरीचैत्यान्युत्कंठावानवंदत ।। १०६० ।। राज्याभिषेकमांगल्योपायनानि महीभुजः । सर्वेऽप्यानिन्यिरे भक्त्या भरतार्धनिवासिनः ।। १०६१ ।। सकलैरवनीपालैः पालिताखंडशासनः । बहून्यब्दसहस्राणि भरतार्धं नलोऽशिषत् ।। १९६२ ।। स्वर्गादन्येद्युरागत्य निषधो देवभूयभाक् । विषयार्णवपाठीनमिति प्राबोधयन्नलम् ।। १९६३ ।। भवारण्ये लुंट्यमानं सदा विषयतस्करैः । आत्मनोऽपि विवेकेस्वमरक्षन् पुरुषोऽसि किम् ।। १९६४ ।। प्रव्रज्यासमयाख्यानं प्रतिपन्नं पुरा मया । तदिदानीं परिव्रज्यां गृहाणायुस्तरोः फलम् ।। १०६५ ।। इत्युक्त्वांतर्दधे देवस्तत्र चाभ्याययौ तदा । जिनसेनाभिधः सूरिरवधिज्ञानशेवधिः ।। १०६६ ।। दवदंतीनलौ गत्वा ववंदाते तमादरात् । पृष्टश्च प्राग्भवं ताभ्यामाख्यायैवमुवाच सः ।। १०६७ ।। प्राप्तं राज्यं त्वया साधोः क्षीरदानात्तथा मुनौ । क्रोधाद्वादशघटिकाद्विरहो द्वादशाब्दिकः ।। १०६८ ।। इति श्रुत्वा पुष्कलाख्ये सुते राज्यं निधाय तौ । गृहीत्वा च व्रतं तस्मात् पालयामासतुश्चिरम् ॥ १०६९ ।। नलोऽन्यदा तु भोगार्थं दवदंत्यां मनोऽकरोत् । अथाचार्यैः परित्यक्तः पित्रागत्य प्रबोधितः ।। १०७० ॥ अशक्नुवन् व्रतं कर्तुं प्रपेदेऽनशनं नलः । नले जातानुरागाथ दवदंत्यपि तद्व्यधात् ।। १०७१ ।। १ वैदर्भी जाया यस्य सः नलः । २ विवेक एव स्वं धनम् । ३ अवधिज्ञाननिधिः । अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिन चरितम् । नल दवदंत्योव्रतमनशनं च । ॥ १७२ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy