________________
त्रिषष्टिशलाकापुरुषचरिते ॥१७१॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
प्रोचे च प्रांजलिभैमी स तापसपतिः पुरा । त्वया विमलमत्याख्यः प्रबोधित इति स्मर ।। १०४६ ।। स तापसपतिर्मृत्वा सौधर्मेऽहं सुरोऽभवम् । श्रीकेसरोऽभिधानेन विमाने केसराभिधे ।। १०४७ ।। अर्हद्धर्मे स्थापितोऽहं मिथ्यादृष्टिरपि त्वया । तेन धर्मेण देवोऽहमभूवं त्वत्प्रसादतः ॥१०४८ ॥ इत्युक्त्वा च हिरण्यस्य कोटीः सप्त प्रवृष्य सः । क्वचिदंतर्दधे देवः स्वां प्रकाश्य कृतज्ञताम् ।। १०४९ ।। वसंतदधिपर्णर्तुपर्णा भीमोऽपरेऽपि हि । महाबला महीपाला राज्येऽभिषिषिचुर्नलम् ।। १०५० ॥ ते राजानो नलादिष्टाः स्वानि स्वानि बलान्यथ । संकीर्णत्वं ददानानि पृथ्व्याः प्राज्यान्यमेलयन् ।।१०५१ ॥ शुभेऽह्नि तैनूपैः सार्धं नलोऽतुलपराक्रमः । राज्यलक्ष्मी जिघृक्षुः स्वामयोध्यामभ्यषेणयत् ॥ १०५२ ॥ कैरप्यहोभिस्तरणिं तिरयन सैन्यरेणुभिः । अयोध्योपवनं गत्वाध्युवास रतिवल्लभम् ।। १०५३ ।। समागतं नलं ज्ञात्वा कूबरो वरवैभवम् । भिया कंठगतप्राण इवाभूभृशमाकुलः ।। १०५४ ।। नलस्तं स्माह दूतेन देवनैर्दीव्यतां पुनः । ममैवास्तु त्वदीया श्रीर्मदीयापि तवास्तु वा ।। १९५५ ।। कूबरोऽपि रणाशंकामपाकृत्य प्रमोदभाक् । पुन तं समारेभे जितकाशी हि तत्र सः ।। १०५६ ।। सर्वामुर्वी जिगायाथ भाग्यवान्नैषधोऽनुजात् । भाग्ये हि विजयो नृणां पाणिपने मरालति ।। १०५७ ।। नलेन जितराज्योऽपि सोऽतिक्रूरोऽपि कूबरः । ममानुजन्मायमिति नाप्रसादास्पदं कृतः ।। १०५८ ।। १ मराली हंसः स इव आचरति । सूर्यम् आच्छादयन् ।
द्यूते नलेन कूबरपराजयो राज्यप्राप्तिश्च ।
|| १७१॥