________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६८॥
अष्टमं पर्व तृतीयः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
दवदंत्या
अस्मिन् फलानि याति तावंत्यगणयन्नपि । वेदम्यहं दर्शयिष्यामि व्यावृत्तः कौतुकं तव ।।१००६ ।। कुब्जो जगाद हे राजन् कालक्षेपाद्बिभेषि किम् ।मा भैषीरश्वहृदयविदुरे मयि सारथौ ।। १००७ ॥ एकमुष्टिप्रहारेण सर्वाणि पुरतस्तव । फलानि पातयिष्यामि मेघोऽम्भःपृषतानिव ।। १००८ ॥ राजा प्रोवाच तर्हि त्वं फलानि कुब्ज पातय । अष्टादश सहस्राणि तेषां स्युः पश्य कौतुकम् ॥१००९ ॥ कुब्जोऽप्यपातयत्तानि संख्याति स्म च भूपतिः । यथाख्यातानि चाभूवन्नैकं हीनं न चाधिकम् ।। १०१०॥ कुब्जोऽश्वहृदयविद्यां दधिपर्णाय याचिताम् । ददौ तस्मादाददे च संख्याविद्यां यथाविधि ।। १०११ ॥ प्रातर्विदर्भाभ्योऽगात् सरथः कुब्जसारथिः । दधिपर्णनृपश्चाभूत् पद्म द्विकसन्मुखः ।। १०१२ ॥ तदैव च निशाशेषे वैदर्भी स्वप्नमैक्षत । यथावत् कथयामास पितुरग्रे च हर्षभाक् ॥१०१३ ॥ मया निर्वृतिदेव्यद्य निशांते सुखसुप्तया । अदर्शि कोशलोद्यानं तयेहानीतमंबरे ।। १०१४ ॥ पुष्पितं फलितं चूतं चारुढास्मि तदाज्ञया । विकस्वरं सरोजं च मम हस्ते तयार्पितम् ॥ १०१५ ॥ मयि तत्राधिरुढायां कश्चिदेको विहंगमः । पुराधिरुढो झटिति पपात धरणीतले ॥१०१६ ॥ भीमोऽप्युवाच हे पुत्रि स्वप्नोऽयमतिशोभनः । तथाहि निर्वृतिर्देवी पुण्यराशिस्तवोद्यतः ।।१०१७ ॥ खे दृष्टं कोशलोद्यानं कोशलैश्वर्यदं तव । माकंदारोहणात् पत्या सह संगंस्यसे द्रुतम् ॥१०१८ ।। अग्रे तत्राधिरुढश्च यः पपात विहंगमः । स कूबरनृपो राज्यात् पतिष्यति न संशयः ॥ १०१९ ॥ १ बिंदून् । २ आम्रवृक्षः ।
अलीकस्वयंवरः।
॥ १६८॥