________________
त्रिषष्टिशलाकापुरुषचरिते ||१६७॥
| अष्टमं पर्व
तृतीयः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
दवदंत्या
कुब्जो जगाद हे राजन्मा विषीदाचिरादपि । नेष्यामि त्वां विदर्भायां रथं साश्वं ममार्पय ।। ९९३ ।। गृहाण स्वैरमित्युक्तो राज्ञा कुब्जो वरं रथम् । जग्राह जात्यावश्वौ च सर्वलक्षणलक्षितौ ।। ९९४ ।। दध्यौ च दधिपर्णस्तं कुशलं वीक्ष्य सर्वतः । न सामान्यः पुमानेष देवो वा खेचरोऽथवा ॥९९५ ।। रथं कृत्वा च युक्ताश्वं कुब्जः प्रोवाच तं नृपम् । रथमारोह नेष्यामि विदर्भा त्वां निशात्यये ॥ ९९६ ।। राजा स्थगीधरश्छत्रधरचामरधारिणौ । कुब्जश्च षडमी सज्जीकृतमारुरुहू रथम् ।।९९७ ।। तबिल्वं तं करंडं च कट्यामाबध्य वाससा । स्मृत्वा पंचनमस्कारं कुब्जो रथ्यानखेटेयत् ।। ९९८ ।। रथः प्रेचीयमानाश्वो नैषधिनाचहद्विदा । जगाम स्वामिचित्तेन विमानमिव नाकिनः ।। ९९९ ।। प्रच्छदो दधिपर्णस्य रथवेगानिलोधुतः । अथापतत् कृतस्तेन नलस्येवावतारणे ॥१००० ।। दधिपर्णोऽवदत् कुब्जं मुहुर्त धार्यतां रथः । वातेनोड्डीय खगवद्गतां गृणाम्यहं पटीम् ॥ १००१ ।। दधिपर्णनृपो यावदवादीदिति कुब्जकम् । तावद्रथो व्यतीयाय पंचविंशतियोजनीम् ।। १००२ ।। स्मयमानोऽवदत् कुब्जः क्वास्ति ते नृपते पटी । पटीपाताद्योजनानां पंचविंशतिरुज्जिता ।। १००३ ॥ एते हि मध्यमा वाहा भवेयुर्यदि नूत्तमाः । एतावता तवजेयुः पंचाशद्योजनीमपि ।। १००४ ।। दधिपर्णनृपो दूरादनेकफलसंकुलम् । अक्षाख्यं वृक्षमद्राक्षीदिति चोवाच सारथिम् ।। १००५ ।। १ अश्वान् । २ अनोदयत् । ३ प्रचीयमानौ पुष्यवश्वौ यस्य सः । ४ उत्तरीयवस्त्रम् । * स्थगी-भाषायाम् 'पानदानी' । दधिपर्णस्य स्वामिनः चित्तेन समं वेगेन ।
अलीकस्वयंवरः।
|| १६७॥