________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
॥१६६॥
तव स्वयंवरं श्रुत्वा दधिपर्णः समेष्यति । सोऽग्रेऽपि त्वयि लुब्धोऽभूवृतः किं तु नलस्त्वया ।। ९८० ।। दधिपणेन च सह स कुब्जोऽप्यागमिष्यति । त्वामन्यस्मै दीयमानां न सोढा स हि चेन्नलः ।। ९८१ ।। नलोऽश्वहृदयज्ञोऽस्ति स कुब्जो नल एव चेत् । रथाश्वैरेव विज्ञेयः स स्वयं प्रेरयन् रथम् ।। ९८२ ।। तस्य च प्राजतो वाहाः स्युः समीरणरंहसः । वाहरुपेण संप्राप्ता मूर्ता इव समीरणाः ॥ ९८३ ।। आसन्नं दिनमाख्येयं यस्तदैति नलो हि सः । न स्त्रीपरिभवं कोऽपि सहते किं पुनर्नलः ।। ९८४ ।। दूतेन सुसुमारेशं भीमराट् पंचमीदिने । आह्वदागमनप्रश्चिंतयामास चेतसि ।।९८५ ।। भैमीप्रेप्सातिदूरे सा तत्र श्वो गम्यते कथम् । किं करोम्यरतिं प्राप्तो मीनः स्तोक इवांभसि ।। ९८६ ।। कुब्जो दध्यौ सती भैमी नान्यं पुरुषमिच्छति । इच्छेद्वा तर्हि तां को हि गृणीयान्मयि सत्यपि ।। ९८७ ।। दधिपर्ण विदर्भायां षड्भिर्यामैर्नयाम्यहम् । अनेन सह मेडपि स्याद्यानं प्रासंगिकं यथा ।। ९८८ ।। ऊचे च दधिपर्णं स मा ताम्य ब्रूहि कारणम् । न ह्यनाख्यातरोगस्य रोगिणोऽपि चिकित्सितम् ।।९८९ ॥ दधिपर्णोऽवदत् कुब्ज कथाशेषो नलोऽभवत् । स्वयंवरं पुनरपि वैदर्भी श्वः करिष्यति ।। ९९० ॥ चैत्रस्य शुद्धपंचम्यां भावी तस्याः स्वयंवरः । षड्याम्येवांतरे तस्य गतिः का मे भविष्यति ॥ ९९१ ॥ बहुभिर्दिवसैर्दूतोऽप्यागात्तेनैव वर्त्मना । सार्धेनाना कथं यामि भैमीलुब्धो मुधास्म्यहम् ।। ९९२ ।। १ प्रेरयतः ।२ आगमने प्रह्व आतुरो दधिपर्णः । ३ भैम्याः प्रेप्सा प्राप्तुमिच्छा ।४ गमनम् । पवनवेगिनः । + आगमनाय तत्परः ।
| दवदंत्या
अलीकस्वयंवरः।
॥ १६६॥