________________
| अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥१६५॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कुब्जो
पुनराख्यदहो कुब्ज सूर्यपाकेन सूपकृत् । सुसुमारेशदूतेनाख्यतस्त्वं भीमभूपतेः ।। ९६६ ।। एवंविधचरित्रेण नलो भवति नापरः । भैम्येति भीममभ्यर्थ्य त्वां द्रष्टुं प्रेषितोऽस्म्यहम् ।। ९६७ ।। अचिंतयं च त्वां दृष्ट्वा क्व कुब्जस्त्वं दुराकृतिः । क्व नलो देवतारुपः क्व खद्योतः क्व भास्करः ।।९६८॥ मम चागच्छतोऽभूवञ्च्छकुनानि शुभानि तु । तानि सर्वाण्यन्यथात्वं ययुर्नासि नलो यतः ।। ९६९ ।। दवदंती हृदि ध्यायन् रुदन् कुब्जोऽधिकाधिकम् । उपरुध्य गृहेऽनैषीत्तं विप्रमिति चावदत् ।।९७० ।। महासत्या दवदंत्या महापुंसो नलस्य च । कथां तवाख्यातवतः स्वागतं किं विधीयताम् ॥९७१ ॥ इत्युक्त्वा विदधे स्नानभोजनादिभिरौचितीम् । तस्यादाच्च दधिपर्णदत्तमाभरणादि सः ।। ९७२ ॥ कुशलः कुशलेनाथ कुडिनं नगरं ययौ । यथादृष्टं च कुब्जं भैमीपित्रे शशंस च ॥९७३ ।। कुब्जो यथा खेदयति स्मारुरोह च तं गजम् । तथाख्यात्सूर्यपाकांच दृष्यं रसवतीं द्विजः ॥९७४ ।। हेममालां टंकलक्षं वस्त्रालंकरणानि च । आख्यत् कुब्जेन दत्तानि श्लोकगानं च तन्निजम् ।। ९७५ ।। भैम्यूचे स नलस्तात प्राप्तो वैरुप्यमीदृशम् । केनाप्याहारदोषेण कर्मदोषेण वा खलु ।। ९७६ ।। कौशलं गजशिक्षायां दानमद्भुतमीदृशम् । सूर्यपाकरसवती नान्यस्यास्ति नलं विना ।। ९७७ ।। तात केनाप्युपायेन तं कुब्जकमिहानय । यथा स्वयं परीक्षेऽहं तं निरीक्ष्येङ्गित्तादिभिः ।। ९७८ ॥ भीमराजोऽवदत् पुत्रि तवालीकस्वयंवरम् । प्रारभ्य दधिपर्णस्याह्नानाय प्रेष्यतां नरः ।। ९७९ ।।
नलेति दवदंत्यादीनां परिज्ञानम् ।
|| १६५॥