________________
त्रिषष्टिशलाकापुरुषचरिते ।।१६४॥
| अष्टमं पर्व | तृतीयः तर्गः श्रीअरिष्टनेमिजिनचरितम् ।
दवदंती तदाकर्योत्कर्णा पितरमब्रवीत् । प्रणिधिं प्रेष्य जानीहि कीदृगस्ति स सूपकृत् ।। ९५३ ।। सूर्यपाका रसवतीं वेत्ति नान्यो नलं विना । गोपितात्मा यदि पुनर्भविता नल एव सः ।। ९५४ ।। ततः स्वाम्यर्थकुशलं कुशलाख्यं द्विजोत्तमम् । आहूय सक्रियापूर्वमादिदेश विशां पतिः ।। ९५५ ।। सुसुमारपुरे गत्वा पश्य तद्राजवल्लभम् । कां कां कलामसौ वेत्ति किंरुपश्चेति निश्चिनु ।। ९५६ ।। प्रभोः प्रमाणमादेश इत्युक्त्वा चलितो द्विजः । प्रेर्यमाणः सुशकुनैः सुसुमारपुरं ययौ ।। ९५७ ॥ पृच्छन् पृच्छन् ययौ कुब्जसमीपे निषसाद च । सर्वांगविकृताकारं तं दृष्ट्वा विषसाद सः ॥९५८ ॥ दध्यौ च क्व नलः क्वायं क्व मेरुः क्व च सर्षपः । उत्पन्नास्मिन्नलभ्रांतिर्दवदंत्या वृथैव हि ।।९५९ ।। निश्चेष्ये सम्यगिति च मनसा संप्रधार्य सः । जगौ श्लोकयुगलकं नलापश्लोकगर्भितम् ।। ९६० ॥ निघृणानां निस्त्रपाणां निःसत्त्वानां दुरात्मनाम् । धूर्यहो नल एकैव पत्नी तत्याज यः सतीम् ।।९६१ ।। सुप्तामेकाकिनी मुग्धां विश्वस्तां त्यजतः सतीम् । उत्सेहाते कथं पादौ नैषधेरल्पमेधसः ॥९६२ ।। मुहुर्मुहु पठयमानं तच्छुत्वा दयितां स्मरन् । रुरोदानर्गलगलन्नयनाब्जजलो नलः ॥९६३ ॥ किं रोदिषीति विप्रेण पृष्टः प्रोवाच हुँडिकः । गीतं ते मंजु करुणरसमाकर्ण्य रोदिमि ॥९६४ ॥ कुब्जेन पृष्टः श्लोकार्थं स विप्रोऽकथयत् कथाम् । आधूतात्कुडिनपुरे वैदर्भीगमनावधि ।। ९६५ ॥ १ नलापकीर्तिगर्मितम् । गुप्तपुरुषम् ।
दधिपर्णनृपान्तिके नलस्य सूपकाररूपेण वसनम्।
॥ १६४॥