________________
अष्टमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥१६३॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
ततः कुब्जाय तुष्टोऽदाद्वस्त्रालंकरणादिकम् । टंकलक्षं च नृपतिर्यामपंचशतीमपि ।। ९४० ॥ सर्व जग्राह तत्कुब्जो ग्रामपंचशतीं विना । राजाप्युवाच किं कुब्ज तवान्यदपि दीयताम् ।। ९४१ ॥ कुब्जो बभाषे तर्खेतन्मम पूरय वांछितम् । मृगयां मद्यपानं च यावदाज़ निवारय ।। ९४२ ।। राजापि वचनं तस्य मानयन्निजशासने । वार्तामपि निराकार्षीन्मृगयामद्यपानयोः ।। ९४३ ॥ दधिपर्णनृपोऽन्येधुः कुब्जमूचे रहःस्थितः । कोऽसि त्वं कुत आयासीः क्व वास्तव्योऽसि वा वद ।।९४४ ॥ कुब्जः प्रोचे कोशलायां नलराजस्य सूपकृत् । हुडिकाख्योऽस्मि तत्पार्श्वे शिक्षिताश्च कला मया ।। ९४५ ।। नलो भ्रात्रा कूबरेण जितो द्यूतेऽखिलां महीम् । दवदंतीमुपादाय प्रपेदेऽरण्यवासिताम् ।। ९४६ ॥ नलो विपेदे तत्रैव ततोऽहं त्वामुपागमम् । मायाविनमपात्रज्ञं श्रितोऽस्मि न तु कूबरम् ।। ९४७ ।। दधिपर्णोऽपि हि तया नलपंचत्ववार्तया । हृदि वजाहत इव चक्रंद सपरिच्छदः ।। ९४८ ॥ दधिपर्णनृपः प्रेतकार्य बाष्पांबुवारिदः । चक्रे नलस्य कुब्जेन वीक्ष्यमाणो धृतस्मितम् ।।९४९ ।। दवदंतीपितुः पार्थे दधिपर्णो नृपोऽन्यदा । केनापि हेतुना दूतं प्रैषीत् सौहार्दवर्त्मना ।। ९५० ।। भीमेन सत्कृतो दूतः स तत्पाघे सुखं वसन् । उवाच वार्ता प्रस्तावेऽन्यदैवं वदतां वरः ।। ९५१ ।। नलस्य सूपकारोऽस्ति मत्स्वामिनमुपागतः । सूर्यपाकां रसवतीं स वेत्ति नलशासनात् ।। ९५२ ।। १ यावत्तवाज्ञा वर्तते तावत् । एकांते स्थितः ।
दधिपर्णनृपान्तिके नलस्य सूपकाररूपेण वसनम् ।
|| १६३॥