________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६२॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
कलापताडनाव्यात्तवक्त्रचीत्कारकारिणम् । करिणं वाहयामास तं कुब्जो नर्तयन् सृणिम् ।। ९२७ ।। तस्याथो घोषयामास जनो जयजयारवम् । तद्गले चाक्षिपद्राजा स्वयं कनकशृंखलाम् ।। ९२८ ॥ मैदनमयमिव तं कृत्वा व्यालं नलो बली । आलानलीनतां निन्ये कक्षानाड्योत्ततार च ।। ९२९ ।। ततो नलोऽमलयशाः प्रणिपातमसंस्मृशन् । अभ्यर्णे दधिपर्णस्योपाविशत् सर्वया इव ।। ९३० ॥ दधिपर्णोऽथ तं प्रोचे गजशिक्षाविचक्षण । किमन्यदपि भोः कुब्ज वेत्सि संभावनास्ति ते ।। ९३१ ॥ कुब्जोऽप्युवाच हे राजन् किमन्यत् कथयामि ते । सूर्यपाकां रसवतीं वेद्मि किं तां दिदृक्षसे ॥९३२ ।। स राजा सदनं गत्वा सूर्यपाककुतूहली । कुब्जाय तंडुलान् शाकान् वेशवारादि चार्पयत् ।। ९३३ ।। चरुन् सूर्यातपे मुक्त्वा सौरी विद्यामनुस्मरन् । मंक्षु निष्पादयामास दिव्यां रसवती नलः ।। ९३४ ।। कल्पवृक्षविशेषेण दत्तयेव मनोज्ञया । रसवत्या तया राजा बुभुजे सपरिच्छदः ।। ९३५ ।। श्रमापनोदजननीं परमानंददायिनीम् । आस्वाद्य तां रसवती दधिपर्णनृपोऽवदत् ।। ९३६ ।। एवंविधां रसवती नलो जानाति नापरः । चिरं परिचिता ह्येषा सेवमानस्य मे नलम् ।।९३७ ॥ तत् किं नलोऽसि विकृताकारो नैतादृशो नलः । योजनद्विशत्या तस्यांतरितस्यागमः कुतः ॥ ९३८ ॥ एकाकित्वं कुतस्तस्य भरतार्धमहीपतेः तद्रूपं च मया दृष्टं जितगीर्वाणखेचरम् ।। ९३९ ।। १ कलापः अंकुशः । २ कुंतम् अंकुशः । ३ मदनं भाषायां भीण" इति ख्यातम् । ४ पार्श्वरज्ज्वा । ५ पात्रादि । मत्तगजम् । + समीपे । मित्रम् । अजिताः देवाः विद्याधराश्च येन तद् रुपम् ।
नलेन गजदमनम् ।
|| १६२॥