________________
त्रिषष्टिशलाका
पुरुषचरिते ।।१६१ ।।
तत्र चैत्ये विशन् कुब्जो ददर्श च तदंतरे । प्रतिमां नमिनाथस्योत्पुलकस्तामवंदत ।। ९१४ ॥ ततो नलः सुसुमारनगरद्वारमभ्यगात् । तत्र चालानमुन्मूल्य भ्रमन्मत्तगजोऽभवत् ।। ९१५ ।। स्पृष्टासनोऽनिलेनापि स व्यधूनयदासनम् । उपरि स्फुरतो हस्तेनाचकर्ष खगानपि ।। ९१६ ।। दृष्टिं दृष्टिविषस्येव जहुस्तस्येभजीविकाः । महावात इवोद्यानतरुनपि बभंज सः ।। ९१७ ।। दधिपर्णनृपस्तत्र वप्रमारुह्य सत्वरम् । उच्चैरुवाच तं नागं वशं नेतुमनीश्वरः ।। ९१८ ।। कुर्याद्गजं मे यो वश्यमवश्यं तस्य वांछितम् । ददामि किं भोः कोऽप्यस्ति गजारोहणधूर्वहः ।। ९१९ ।। कुब्जोऽवादीत्तदाकर्ण्य क्व स क्व स मतंगजः । तमहं गमयिष्यामि वश्यतां पश्यतां हि वः ॥ ९२० ॥ आगात् कुब्जे वदत्येवं स गर्जन्नूर्जितं गजः । तमभ्यधावत् कुब्जोऽपि क्ष्मां पद्भ्यामस्पृशन्निव ।। ९२१ ॥ मा मृथा मा मृथाः कुब्जापसरापसरेत्यलम् । लोको जगाद निःशंक केसरीव ययौ तु सः ॥ ९२२ ॥ प्रससारापससार पपात च लुलोठ च । स कंदुक इव कुब्जः कुंजरं विप्रतारयन् ॥ ९२३ ॥ भूयो भूयश्च लांगूलमाक्रमन् विक्रमी नलः । वार्तिकः पन्नगमिव खेदयामास तं गजम् ॥ ९२४ ॥ जितश्रमो नलो जातश्रमं विज्ञाय तं गजम् । द्राग्गरुत्मानिवोत्पत्यारुरोहारोहकाग्रणीः ।। ९२५ ।। पूर्वासनमधिष्ठाय पादौ न्यस्य कलापके । दृढयामास तद्ग्रंथिमाघ्नन् कुंभौ चपेटया ॥ ९२६ ॥ १ हस्तिरक्षकाः । २ कलापको गजकंठरज्जुः । गरुडः ।
अष्टमं पर्व
तृतीयः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
नलेन
गज
दमनम् ।
॥ १६१ ॥