________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६०॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
मया मायोरगीभूय दुर्दशापतितस्य ते । गंडोपरि पिटकवत् कृतांगेषु विरुपता ।। ९०० ॥ अंगेषु वैरुप्यमपि मयोत्पादितमीदृशम् । उपकाराय मन्यस्व कटुभेषजपानवत् ।।९०१ ॥ त्वया दासीकृताः सर्वे राजानस्ते तव द्विषः । वैरुप्यानुपलक्ष्यं त्वां नोपद्रोष्यति संप्रति ॥९०२ ॥ इदानीमपि मा कार्षीः परिव्रज्यामनोरथम् । भोक्तव्या भूस्तवाद्यापि तावत्येव चिरं नल ॥९०३ ॥ कथयिष्यामि समयं परिव्रज्योचितं च ते । सोऽहं मोहूर्तिक इव सुस्थितोऽतः परं भव ॥९०४ ॥ पुत्रेदं श्रीफलफलमिमं रत्नकरंडकम् । गृहाण यत्नाद्रक्षेश्च क्षत्रव्रतमिवात्मनः ।। ९०५ ॥ स्वरुपार्थी यदा त्वं स्याः श्रीफलं स्फोटयेस्तदा । देवदूष्याण्यदूष्याणि द्रक्ष्यसि त्वं तदंतरे ॥९०६ ॥ तदैवोद्धाटये रत्नकरंडमपि तत्र तु । हारादीन्यतिहारीणि द्रक्ष्यस्याभरणानि च ॥९०७ ॥ सद्यः परिहितैर्देवदूष्यैराभरणैश्च तैः । तदेव देवताकारं निजं रुपमवाप्स्यसि ।। ९०८ ।। नलः पप्रच्छ तं तात दवदंती स्नुषा तव । किं यत्र मुक्ता तत्रास्ति गता वा क्वचिदन्यतः ॥९०९ ।। देवोऽप्याख्यत्ततः स्थानाद्विदर्भागमनावधि । भैम्या वृत्तांतमखिलं तत्सतीत्वं प्ररुपयन् ।।९१० ॥ जगाद च नलं वत्स किमरण्ये भ्रमन्नसि । नयामि तत्र स्थाने त्वां यस्मिञ्जिगमिषा तव ॥९११ ॥ नलः प्रोवाच मां देव सुसुमारपुरं नय । देवोऽपि हि तथा कृत्वा जगाम निजधामनि ॥९१२ ॥ नलोऽपि नंदनवने तत्पुरोपांतवर्मनि । स्थितो ददर्शायतनं सिद्धायतनसंनिभम् ।। ९१३ ॥ १ लोके 'फोल्लो' । २ लोके 'फोल्लो' ।
सर्पदंशेन नलस्य
कुब्जी
भवनम् ।
|| १६०॥