________________
| अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचारते ।।१५९॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
नलो जातानुकंपोऽथ कंपमानस्य भोगिनः । कर्षणायाक्षिपद्वल्लीवनोपरि निजां पटीम् ।। ८८७ ।। उत्तरीयांचलं राज्ञो भूलग्नं प्राप्य पन्नगः । अवेष्टयत् स्वभोगेन वालकेनोर्मिकामिव ।। ८८८ ॥ पन्नगेन तदाक्रांतमुत्तरीयं निजं नलः । उदपानाद्रज्जुमिव चकर्षोत्कर्षभाग नृपः ॥ ८८९ ।। गत्वोखरप्रदेशे च वनवनेरगोचरे । मुमुहूं मंक्षु भूपालं दंदशूकोऽदशत् करे ।। ८९० ॥ स्वेदबिंदुमिवाच्छोट्य तं नागमवनीतले । नलः प्रोवाच भोः साधु कृतज्ञेन कृतं त्वया ।। ८९१ ॥ ममोपकारिणः साधूपकृतं पन्नग त्वया । यो हि पाययति क्षीरं त्वज्जात्या सोऽपि दश्यते ।। ८९२ ।। नलस्यैवं विवदतो विषेणांगे प्रसर्पता । कुब्जतां वपुरापेदे धन्वेवाधिज्यतां गतम् ।। ८९३ ।। सोऽणुपिंगकः प्रेत इव लंबौष्ट उष्ट्रवत् । सूक्ष्मपादकरः स्थूलोदरो रंक इवाभवम् ।। ८९४ ।। सर्वांगमपि बीभत्सविकृताकारधार्यभूत् । आशीविषविषग्रस्तो नलो नट इव क्षणात् ।। ८९५ ॥ अचिंतयच्च रुपेणामुना मे जीवितं मुधा । गृणामि तत् परिव्रज्यां परलोकोपकारिणीम् ।। ८९६ ॥ नलस्यैवं चिंतयतः सोऽहिस्त्यक्त्वाहिरुपताम् । दिव्यालंकारवसनस्तेजोरुपः सुरोऽभवत् ।। ८९७ ।। ऊचे च मा विषीदः स्म तवाहं निषधः पिता । तुभ्यं दत्वा तदा राज्यं परिव्रज्यामुपात्तवान् ।। ८९८ ॥ परिव्रज्याफलेनाहं ब्रह्मलोके सुरोऽभवम् । अद्राक्षं चावधिना त्वां प्रपेदानमिमां दशाम् ।। ८९९ ॥ १ कूपात् । २ केशः ।
| सर्पदंशेन | नलस्य
कुब्जी
HARASHASHRSHASRHASHRS
भवनम् ।
|| १५९ ॥