________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५८॥
| अष्टमं पर्व
तृतीयः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सुखेनास्मद्गृहे कालं गमयंती चिरादपि । पतिं द्रक्ष्यसि जीवन् हि प्राणी भद्राणि पश्यति ।। ८७३ ।। हरिमित्राय तुष्टोऽदाग्रामपंचशतीं नृपः । ऊचे च दास्ये राज्यामिपि तुभ्यं नलागमे ।। ८७४ ।। पुरे गत्वा नृपश्चक्रे दवदंत्यागमोत्सवम् । दिनानि सप्त देवार्चा गुर्वा च विशेषतः ।। ८७५ ।। अष्टमेऽह्नि च वैदर्भी विदर्भपतिरब्रवीत् । तथा करिष्यते शीघ्रं नलः संगस्यते यथा ।। ८७६ ॥ तदा च हित्वा वैदी नलोऽरण्ये परिभ्रमन् । अपश्यदेकतो धूमं वनकक्षात् समुत्थितम् ।। ८७७ ।। धूमस्तोमोऽञ्जनश्यामो व्यानशे स नभस्तलम् । अछिन्नपक्षः कोऽप्यद्रिः खे यातीति भ्रमप्रदः ।। ८७८ ।। धूमो निमेषमात्रेण ज्वालामालाकरालितः । भुवः प्रादुर्भवम् विद्युद्युतमेघविडंब्यभूत् ॥ ८७९ ॥ वंशानां दह्यमानानां त्रटत्त्रटिति निःस्वनम् । आक्रंदं श्वापदानां च ततः शुश्राव नैषधिः ।। ८८० ।। ततो दावानले दीप्ते शब्द शुश्राव मानुषम् । इक्ष्वाकुनल भूपाल रक्ष मां क्षत्रियोत्तम ॥ ८८१ ।। निष्कारणोपकारी त्वं पुव्रतेनासि यद्यपि । तथापि तुभ्यमुर्वीशोपकरिष्यामि रक्ष माम् ।। ८८२ ॥ तं शब्दमभिगच्छंश्च लतागहनमध्यगम् । महोरगं नलोऽद्राक्षीद्रक्ष रक्षेति भाषिणम् ।। ८८३ ॥ पप्रच्छ च कथं वेत्सि मां मन्नाम मदन्वयम् । कथं वा मानुषी वाक् ते ममाख्याहि महोरग ।। ८८४ ।। आख्यत्सर्पोऽहमभवं मनुष्यः पूर्वजन्मनि । तज्जन्माभ्यासतो भाषा मानुषी मे प्रवर्तते ।। ८८५ ॥ ममास्ति चावधिज्ञानमुज्वलं तेन वेदम्यहम् । त्वां च त्वन्नामधेयं च त्वद्वंशं च यशोनिधे ।। ८८६ ।
नलेनाउनलात सर्परक्षणम् ।
|| १५८ ॥