________________
अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ।।१५७॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
मां महापापिनं भद्रे यधुपैक्षिष्यथास्तदा । अप्राप्तधर्मो मृत्वाहमयास्यं नरके ततः ।।८६० ।। वैदर्भि त्वत्प्रसादेनासदं घुसदनश्रियम् । इति त्वां द्रष्टुमागच्छं विजयस्व महासति ।। ८६१ ॥ इत्युक्त्वा च हिरण्यस्य सप्त कोटीः प्रवृष्य सः । सुरस्तिरोधादुत्पत्य विद्युत्पुंज इवांबरे ।। ८६२ ।। इति साक्षात्कृतफलं धुसदा धर्ममार्हतम् । ऋतुपर्णनरेन्द्रोऽपि प्रपेदे विदुषां वरः ।। ८६३ ।। संप्राप्तावसरश्चोचे हरिमित्रस्तदा नृपम् । देवादिश चिराधातु दवदंती पितुहि ।। ८६४ ॥ ततश्च चंद्रयशसाप्युक्तो राजैवमस्त्विति । विदर्भान् प्रति वैदर्भीमादिशत् सेनया सह ।। ८६५ ।। आगच्छंती दवदंती श्रुत्वा भीमनृपोऽभ्यगात् । कृष्टो बलीयसा प्रेम्णा दुर्धरणेव वाजिना ॥ ८६६ ॥ दृष्टमात्रेऽपि पितरि वैदर्भी पादचारिणी । स्मेरास्यपद्मा धावित्वापतत्तत्पादपद्मयोः ।। ८६७ ॥ पितुः पुत्र्याश्च सोत्कंठं चिरान्मिलितयोस्तयोः । पतद्भिर्नेत्रसलिलैर्भूरभूद्भरिकर्दमा ।। ८६८ ॥ ज्ञात्वा सह समायातां पुष्पदंती तदात्मजा । आलिंगति स्म सुदृढं यमुना जाह्नवीमिव ।। ८६९ ।। लगित्वा तद्गलेऽरोदीन्मुक्तकंठं नलप्रिया । इष्टे दृष्टे नवमिव दुःखं भवति देहिनाम् ।। ८७० ॥ प्रक्षाल्य च क्षणादूर्ध्वं मुखांभोजानि वारिणा । ते मिथो वार्तयामासुर्दुःखोगिरणपूर्वकम् ।। ८७१ ।। अंकमारोप्य वैदर्भी पुष्पदंती जगाद च । दृष्टास्यायुष्मती दिष्ट्या भाग्यं जागर्ति नः खलु ॥ ८७२ ।। १ प्राप्तं । २ उल्लसितं वदनकमलं यस्याः सा । ३ गङ्गामिव ।
दवदंत्या पितृमिलनम् ।
|| १५७॥