________________
त्रिषष्टिशलाका
पुरुषचरिते
1194811
उवाच देवीं नृपतिर्नन्वियायास्तमर्यमा । नेह दीपो न वा वह्निरहूनीवोद्योत एष किम् ॥ ८४८ ॥ जन्मतः सहसंसिद्धं वैदर्भ्यास्तिलकं च तम् । राज्ञी प्रादर्शयद्राज्ञे ज्योतिर्जलमहाह्रदम् ॥। ८४९ ॥ प्यधात्तं तिलकं राजा कौतुकेन स्वपाणिना । अभूद्गरिगुहाप्रायं तमसा मंक्षु तत्सदः ।। ८५० ॥ अपसार्य पुनः पाणिं पप्रच्छातुच्छसंमदः । राजा पिंत्रीयितो भैमीं राज्यभ्रंशादिकां कथाम् ।। ८५१ ।। न्यग्मुखी कथयामास रुदंती दवदंत्यपि । नलकूबरयोर्धूतादारभ्य सकलां कथाम् ।। ८५२ ।। राजापि स्वोत्तरयेण भैम्याः संमार्ज्जु चक्षुषी । उवाच पुत्रि मा रोदीर्न कश्चिद्बलवान् विधेः ।। ८५३ ।। अत्रांतरे दिवो देवः कश्चिदुत्तीर्य पर्षदि । तत्रागाद्भीमतनयामूचे च रचितांजलिः ।। ८५४ ।। दवदति तवादेशाच्चौरः पिंगलको ह्यहम् । प्रव्रज्य तापसपुरे तदा हि विहरन्नगाम् ।। ८५५ ।। तत्र श्मशानमध्येऽस्थामहं प्रतिमया स्थिरः । चितानलोत्थितो दूरं प्रासरच्च दवानलः ॥ ८५६ ॥ तेनाहं दह्यमानोऽपि धर्मध्यानादविच्युतः । स्वयमाराधनां कृत्वा नमस्कारपरायणः ।। ८५७ ।। भूपृष्ठे पतितस्तत्र समिधीभूतविग्रहः । विपद्य त्रिदशोऽभूवं नामधेयेन पिंगलः ।। ८५८ ।।
॥ युग्मम् ॥ ततोऽज्ञासिषमधे रक्षितोऽस्मि त्वया वधात् । प्रव्रज्यां ग्राहितश्चास्मि तत्प्रभावात् सुरोऽभवम् ।। ८५९ ।। १ जगाम । २ पितेवाचरितः । ३ स्वर्गात् । ४ अवधिज्ञानात् । दावानले इन्धनभूतम् शरीरम् यस्य सः ।
अष्टमं पर्व
तृतीयः
सर्गः
श्रीअरिष्ट
नेमिजिनचरितम् ।
चौरस्य
स्वर्ग
गमनम् ।
॥ १५६ ॥