________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५५॥
| अष्टम पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
किमात्मगोपनं कृत्वा वंचितास्मि त्वयानघे । यद्येवं दुर्दशा दैवात् का ही मातृकुले निजे ।। ८३५ ॥ हा वत्से किं त्वया मुक्तो नलो मुक्तासि तेन वा । नूनं मुक्तासि तेन त्वं त्वं सती तं न मुंचसि ।। ८३६ ।। त्वयापि यदि हीयेत दुर्दशापतितः पतिः । उदयेत तदा नूनं पश्चिमायां दिवाकरः ।। ८३७ ।। नलात्याक्षीः कथमिमां मत्पाघे नामुचः कथम् । किं ते कुलोचितमिदं दयितां त्यजतः सतीम् ।। ८३८ ।। दुःखं गृह्णामि ते वत्से क्रियाः समवतारणम् । आगः सहस्व मे यत्त्वं न मयास्युपलक्षिता ।। ८३९ ॥ तमोऽहिगरुडः कृष्णनिशायामपि भास्करः । क्व वा स तिलको बाले तवालिकसहोद्भवः ।। ८४०॥ इति स्ववदनांभोजनिष्ठीवनरसेन सा । भैम्या अमार्जयद्भालं जिघ्रंती मूर्ध्नि तां मुहुः ।। ८४१ ।। रैपिंडोऽग्न्युत्तीर्ण इव मेघमुक्त इवार्यमा । तत्कालं भालतिलको वैदा दिद्युतेतराम् ।। ८४२ ॥ ततश्चास्नपयच्चंद्रयशा देवी नलप्रियाम् । गंधोदकैः स्वपाणिभ्यां देवताप्रतिमामिव ।। ८४३ ।। वाससी धवले सूक्ष्मे ज्योत्स्नारसमये इव । भैमी चंद्रयशोदेव्यार्पिते परिदधे ततः ॥ ८४४ ।। देवी चंद्रयशाः प्रीता पाणिनादाय भीमजाम् । प्रमोदवारिसरसी निषसाद नृपातिके ॥ ८४५ ।। तदा चास्तं ययौ सूर्योऽपूर्यताशेषमंबरम् । सूच्यभेदेन तमसा कज्जलेनेव भाजनम् ॥ ८४६ ।। विवेश सांधतमसं तदा सदसि भूपतेः । भैमीतिलकतेजोभिः स्खलितं काष्ठकैरिव ।। ८४७ ॥ १ दुःखस्योत्तारणं क्रियाः विधेयः । २ सुवर्णपिंडः ।३ वेत्रधारिमिः । त्यजेत । + अपराधम् । • मालम् ।
मातृस्वमा दवदंतीति ज्ञानम् ।
||| १५५॥