________________
त्रिषष्टिशलाकापुरुपचरिते ।।१५४॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
पुष्यदंत्यपि तद्राज्ञो मुखाच्छुत्वारुदभृशम् । नारीणामातुरत्वे हि न दूरे नयनोदकम् ।। ८२१ ॥ ततश्च हरिमित्राख्यस्तदन्वेषणहेतवे । स्वाम्यादेशपटू राजबटू राज्ञा न्ययोज्यत ।। ८२२ ॥ नलं च दवदंती च बटुः सर्वत्र शोधयन् । स ययावचलपुरेऽविक्षच्च नृपपर्षदि ।। ८२३ ॥ पप्रच्छ तं चंद्रयशा निषण्णं नृपतेः पुरः । कच्चित् क्षेमं पुष्पदंत्यास्तदीयस्य जनस्य च ।। ८२४ ॥ स आख्यत् कुशलं देव्याः पुष्पदंत्याः सदोदितम् । नलस्य दवदंत्याश्च कुशलं चिंत्यमीश्वरि ।। ८२५ ॥ उक्तश्च किं ब्रवीषीति देव्याः सोऽकथयबटुः । नलभैम्यौः कथां धूतादारभ्यात्यंतदुःश्रवाम् ।। ८२६ ।। ततश्च चंद्रयशसि रुदंत्यां प्ररुरोद च । हर्षवार्तास्वनध्यायी राजलोकस्तदाखिलः ॥ ८२७ ।। सर्व दुःखातुरं प्रेक्ष्य क्षामकुक्षिबुभुक्षया । बटुर्ययौ दानशाला भोज्यचिंतामणिर्हि सा ।। ८२८ ।। तत्रासीनो भोजनार्थं दानशालाधिकारिणीम् । दवदंती स्वामिपुत्रीमुपलक्षयति स्म सः ।। ८२९ ॥ स ववंदे दवदंत्याः पादौ रोमांचमुद्वहन् । विस्मृतक्षुट्यथो हर्षादुत्फल्लाक्षो जगाद च ॥८३०॥ देवि केयमवस्था ते निदाघ इव वीरुधः । दिष्ट्या दृष्टासि जीवंती सर्वेभ्यः स्वस्ति संप्रति ।। ८३१ ।। इत्युत्थाय द्रुतं चंद्रयशोदेवीमवर्धयत् । तवास्ति दानशालायां दवदंतीति संलपन् ।। ८३२ ॥ तच्छुत्वा दानशालायां गत्वा चंद्रयशा द्रुतम् । दवदंतीमालिलिंग मरालीव मृणालिनीम् ॥ ८३३ ॥ ऊचे च वत्से धिग्धिङ्मां यया नास्युपलक्षिता । सामुद्रिकैरद्वितीयैर्लक्षणैर्व्यजितापि हि ।। ८३४ ।। १ विचारणीयम् - शंकितम् । २ ग्रीष्मर्ती । ३ लतायाः ।
मातृस्वमा दवदंतीति ज्ञानम् ।
|| १५४॥