________________
अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥१५३॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
आरक्षः पार्थिवादिष्टैर्बद्धोऽहं तत्क्षणादपि । वधार्थ नीयमानश्च त्वामद्राक्षं महासति ।। ८०७ ॥ दूरादपि त्वां शरणं प्रपन्नस्तारमारटन् । मोचितोऽस्मि त्वया छाग इव वध्यत्वमागतः ।। ८०८ ॥ अन्यच्च तापसपुराद्गतायां स्वामिनि त्वयि । विंध्याकृष्टो द्विप इव वसंतो भोजनं जहौ ।। ८०९ ।। बोधितश्च यशोभद्रसूरिणान्यजनेन च । उपोषितः सप्तरात्रं बुभुजे सोऽष्टमे दिने ।। ८१० ।। स वसंतोऽन्यदादाय महामूल्यमुपायनम् । जगाम कूबरनृपं द्रष्टुं श्रीदसमं श्रिया ।। ८११ ॥ उपायनेन तुष्टश्च तस्मै कूबरपार्थिवः । प्रददौ तापसपुरराज्यं छत्रादिलांछितम् ।। ८१२ ॥ तं सामंतपदे कृत्वा तस्यादादभिधांतरम् । वसंतश्रीशेखर इत्यवनीशो नलानुजः ।। ८१३ ॥ कूबरेण विसृष्टश्च भंभया वाद्यमानया । आगतस्तापसपुरे वसंतो राज्यमन्वशात् ।। ८१४ ।। भैम्यूचे वत्स दुःकर्म कृतं प्रव्रज्य निस्तर । प्रमाणं मातुरादेश इति चोवाच पिंगलः ।। ८१५ ।। तत्र चागादनगारद्वितीय पर्यटत्तदा । प्रत्यलाभि च वैदा दोषवर्जितभिक्षया ।। ८१६ ॥ बभाषे तावृषी भैमी भगवंतावयं पुमान् । यदि योग्यस्तदेतस्य व्रतदानात् प्रसीदतम् ।। ८१७ ॥ ताभ्यां योग्योऽयमित्युक्ते पिंगलोऽयाचत व्रतम् । ततो देवगृहे नीत्वा सद्यः प्रावाजितश्च सः ।। ८१८ ॥ विदर्भेशोऽन्यदाश्रौषीन्नलो यदनुजन्मना । द्यूते हारितराज्यश्रीः कूबरेण प्रवासितः ॥ ८१९ ॥ दवदंती गृहीत्वा च स विवेश महाटवीम् । न ज्ञायते गतः क्वापि किं जीवति मृतोऽथवा ।। ८२० ॥ १ कूबेरसमं ।
मातृस्वना दवदंतीति ज्ञानम् ।
।। १५३॥