________________
त्रिषष्टिशलाकापुरुषचरिते ॥१५२॥
अष्टम पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
चौर
क्षम्यतामपराधोऽस्य शरणाश्रित एष मे । दुष्टरोग इवास्यार्तिः संक्रांता तात मय्यपि ॥७९४ ।। ऋतुपर्णनरेन्द्रोऽथ तं मुमोच मलिम्लुचम् । महासत्या धर्मपुत्र्या एतस्या उपरोधतः ।। ७९५ ॥ मुक्तमात्रः स चौरोऽपि त्वं मे मातेति भीमजाम् । प्रतिपेदे तिलकयन् भालं भूतलरेणुना ।। ७९६ ॥ प्राणदानोपकारां तां दिवानिशमविस्मरन् । मुक्तः स तस्करो भैमी नमश्चक्रे दिने दिने ॥ ७९७ ॥ तमन्यदा चौरवरं पप्रच्छ नलवल्लभा । कोऽसि त्वं कुत आयासीरपशंकं निवेदय ।। ७९८ ॥ स आख्यत्तापसपुरे पुरे परमसंपदः । वसंतसार्थवाहस्य दासोऽहं पिंगलाह्वयः ।।७९९ ।। व्यसनैरभिभूतेन वसंतस्यैव वेश्मनि । खनित्वा खात्रमग्राहि कोशसारं मया निशि ।। ८०० ॥ नष्टोऽहं लोपत्रपाणिश्च प्राणत्राणपरायणः । लुटाकैलुंटितो मार्गे कियत क्षेमं दुरात्मनाम् ॥ ८०१ ।। अत्रागत्याथ राजानमृतुपर्णमसेविषि । सेवां मनस्वी कः कुर्यात् कुर्याद्वा तर्हि भूपतेः ।।८०२ ।। ततः संचरता राजहh चाधर्मबुद्धिना । मया चंद्रवतीदेव्या दृष्टा रत्नकरंडिका ।। ८०३ ॥ तद्दर्शनान्मनोऽचालीन्मम तद्धरणेच्छया । परस्त्रीदर्शनात् पारदारिकस्येव दुर्धियः ।।८०४ ।। चिल्ली हारमिवाहार्षमथ रत्नकरंडिकाम् । विधायाप्रपदीनं चोत्तरीयं निरगां ततः ।। ८०५ ॥ ऋतुपर्णनरेन्द्रेण कैश्चिच्चौरेङ्गितैरहम् । लक्षितोऽस्त्यतिदक्षेण नालक्ष्यं दक्षताजुषाम् ।। ८०६ ॥ १ चरणपृष्ठपर्यंतम् । भाषायाम् 'समडी'
वृत्तान्तः ।
॥ १५२॥