________________
त्रिषष्टिशलाकापुरुषचरिते ॥१६९॥
| अष्टमं पर्व
तृतीयः |सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
प्रभातसमये स्वप्नदर्शनादद्य ते नलः । मिलिष्यत्यत्र काले हि स्वप्नः शीघ्रं फलप्रदः ॥ १०२० ॥ तदानीमेव पूर्वारं संप्राप्तो दधिपर्णराट् । पुमांश्च मंगलो नाम भीमायाख्यात्तमागतम् ।। १०२१ ।। भीमोऽभ्यगाद्दधिपर्ण परिरेभे च मित्रवत् । गृहार्पणादिनातिथ्यं कृत्वा चैवमवोचत ।। १०२२ ।। सूर्यपाकां रसवती कुब्जस्ते वेत्ति सूपकृत् । तां दर्शय दिदृक्षोर्मे वार्तया कृतमन्यया ।। १०२३ ।। आदिक्षद्दधिपर्णोऽपि कुब्जं रसवतीकृते । सोऽपि तां दर्शयामास कल्पवृक्ष इव क्षणात् ।। १०२४ ।। भीमस्तया रसवत्या बुभुजे सपरिच्छदः । दधिपर्णोपरोधेन तत्स्वादं च परीक्षितुम् ॥ १०२५ ॥ स्थालं तदोदनभृतमानाय्य दवदंत्यपि । बुभुजे तद्रसास्वादादज्ञासीत् कुब्जकं नलम् ।। १०२६ ॥ भैम्यूचे च ममाख्यातं ज्ञानिना सूरिणा पुरा । सूर्यपाका रसवती नलस्यैवेह भारते ।। १०२७ ॥ अयं कुब्जोऽस्तु कुंटोऽस्तु यादृशस्तादृशोऽस्तु वा । कारणं तत्त किमपि नल एव न संशयः ।। १०२८ ॥ नलस्यैका रसवती परीक्षान्यापि विद्यते । नलांगुल्याप्यहं स्पृष्टा भवाम्युत्पुलका खलु ॥१०२९ ।। कुब्जोऽङ्गुल्या स्पृशतु मां तिलकं रचयन्निव । अभिज्ञानांतरेणैव भवेद्यदि पुनर्नलः ॥१०३० ॥ कुब्जो नलोऽसीति पृष्टः प्रोचे भ्रांताः स्थ सर्वथा । क्व नलो देवतारुपः क्वानों द्रष्टुमप्यहम् ॥१०३१ ॥ तद्वक्षोऽस्पृक्षदंगुल्या कुब्जोऽथात्युपरोधतः । अतिलाघवतः पत्रमिवार्द्राक्षरमार्जकः ।। १०३२ ।। तावताप्यंगुलिस्पर्शनानंदाद्वैतदायिना । भैम्याः कर्कोटकमिवाजनिष्टोत्कंटकं वपुः ।। १०३३ ।। १ भाषायाम् 'शाहुडी'।
नल | दवदंत्योमिलनम् ।
|| १६९॥