________________
त्रिषष्टिशलाकापुरुषचरिते ।।१४९॥
| अष्टमं पर्व | तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ऋतुपर्णनृपस्तत्राभूत् सुपर्ण इवौजसा | चंद्रोज्ज्वलयशाश्चंद्रयशास्तस्य च गेहिनी ॥७५५ ॥ तत्र चंद्रयशोदास्यो वार्यानेतुं समाययुः । मस्तकन्यस्तकलशा मिथो नर्मपरायणाः ।।७५६ ॥ दास्यस्ता दुर्दशां प्राप्तामपि ताममरीमिव । ददृशुः पंकमग्नापि पद्मिन्येव हि पद्मिनी ।।७५७ ॥ भैम्या रुपं प्रपश्यत्यस्ताश्च वाप्यां सविस्मयाः । मंद मंदं प्रविविशुर्मंदं मंदं च निर्ययुः ।। ७५८ ।। गत्वा च कथयामासुस्तां तथारुपशालिनीम् । स्वामिन्यै चंद्रयशसे संप्राप्तमिव शेवधिम् ।।७५९ ।। ताश्च चंद्रयशाः प्रोचे समानयत तामिह । मत्पुत्र्याश्चंद्रवत्याः सा भगिनीव भविष्यति ।।७६० ॥ वापीपरिसरे तस्मिन्नेव ता द्रुतमाययुः । नगराभिमुखां लक्ष्मीमिवाथ ददृशुश्च ताम् ॥७६१ ।। ऊचुश्च नगरेऽमुष्मिन्नृतुपर्णस्य भूपतेः । राज्ञी चंद्रयशोनाम्नी त्वामाह्वयति गौरवात् ।। ७६२ ।। आज्ञापयति च त्वं हि पुत्री चंद्रवतीव मे । तदेहि भद्रे दुःखेभ्यः प्रकल्पय जलांजलिम् ।। ७६३ ।। तिष्ठंती शून्यचित्तेह छलमाप्य दुरात्मभिः । व्यंतरादिभिराविष्टा त्वमनर्थमवाप्स्यसि ॥७६४ ।। एवं च चंद्रयशसो वचनेनार्द्रमानसा । दवदंत्यपि पुत्रीत्वस्नेहक्रीता ततोऽचलत् ॥७६५ ॥ स्वामिन्या धर्मपुत्री त्वमपि स्वामिन्यसीति सा । ताभिर्विनयवक्त्रीभिरनीयत नृपौकसि ॥७६६ ।। चंद्रयशाः पुष्पदंत्या भैमीमातुः सहोदरा । मम मातृष्वसैवेति विवेद न तु भीमजा ॥७६७ ।। १ गरुडः । २ शेर्धनादिमोहस्यावधि कुबेरनिधिमिति यावत् । ३ द्वितीया बहुवचनम् । " वक्त्रम् मुखम् ।
| दवदंत्या मातृस्वसुः गृहेऽज्ञातवासः।
|| १४९॥