________________
अष्टमं पवे
त्रिषष्टिशलाका
तृतीयः
पुरुषचरिते
॥१५०॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
जामेयी दवदंती मेऽस्तीति चंद्रयशाः पुनः । विवेद बाल्यदृष्टां तु तामुपालक्षयन्न हि ॥७६८ ॥ पुत्रीप्रेम्णा तु तां दूरादपि राज्ञी ददर्श सा । प्रमाणमंतःकरणं खल्विष्टानिष्टनिर्णये ॥७६९ ।। सस्वजे चंद्रयशसातिगाढंच नलप्रिया । तदंगसादं श्रमजमपनेतुमिवादरात् ॥ ७७० ॥ वर्षत्यश्रूणि वैदर्भी राज्याः पादाववंदत । तत्प्रीत्यवक्रय पादक्षालनेनेव तन्वती ॥७७१ ।। पृष्टा च चंद्रयशसा कासि त्वमिति भीमजा । कथयामास तत्सर्वं सार्थवाहाय यत्पुरा ।। ७७२ ।। वैदर्भीमभ्यधाच्चंद्रयशाः कल्याणि मद्गृहे । यद्वच्चंद्रवती तद्वत्त्वमप्येधस्व शर्मभिः ॥७७३ ।। देव्यन्यदा चंद्रयशाः प्रोचे चंद्रवती सुताम् ।मज्जामेय्या दवदंत्या सदृशीयं तव स्वसा ।। ७७४ ।। तस्याः संभाव्यते नैवविधमागमनं क्वचित् । अस्माकमपि यः स्वामी नलः पत्नी हि तस्य सा ।। ७७५ ।। स चतुश्चत्वारिंशतियोजनानां शते च सा । कथमागमनं तस्या दुर्दशा चेदृशी कुतः ॥ ७७६ ।। सा च चंद्रयशा देवी प्रत्यहं नगराबहिः । दीनानाथादिपात्रेभ्यो ददौ दानं यथारुचि ।। ७७७ ।। तामन्यदा च वैदर्भी दानमत्र ददाम्यहम् । आगच्छेन्मे यदि पुनः पतिर्याचकवेषभाक् ।। ७७८ ।। आयुक्ता चंद्रयशसा दवदंती तदाद्यपि । पत्याशया क्लेशसहा ददौ दानं यथास्थिति ॥ ७७९ ॥ दानार्थिनञ्च प्रत्येकं भैम्यपृच्छद्दिने दिने । ईदृग्रूपः पुमान् कोऽपि किं युष्माभिरदृश्यत ।। ७८० ।। १ तदंगक्षयम् जीर्णतामिति यावत् । २ तत्प्रीतेरवक्रयो मूल्यं तम् । आलिङ्गनमकरोत् । मम भगिनीपुत्र्या ।
दवदंत्या नलप्राप्त्यै दानप्रारम्भः ।
|| १५०॥