________________
अष्टमं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥१४८॥
तृतीयः सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
| दवदंत्या
स आख्यन्मल्लिनाथस्याहतस्तीर्थे दिवच्युतः । प्रसन्नचंद्रो राजा त्वं मिथिलायां भविष्यसि ।।७४२ ॥ मल्लेरेकोनविंशस्यार्हतः संप्राप्य दर्शनम् । उत्पन्नकेवलज्ञानो निर्वाणं त्वमवाप्स्यसि ॥ ७४३ ॥ तदादि मल्लिनाथेऽहमुत्पन्नात्यंतभक्तिकः । पटे तबिंबमालेख्य धर्मज्ञे पूजयाम्यहम् ॥७४४ ॥ आख्यायेति स्ववृत्तांतं पप्रच्छ श्रावकोऽप्यदः । धर्मबंधोर्ममाख्याहि कासि त्वं पुण्यदर्शने ॥ ७४५ ॥ तस्मै श्रावकवर्याय धनदेवस्तयोदितम् । सर्वं पतिवियोगादि वृतमाख्यदुदश्रुदृक् ।। ७४६ ॥ श्रावकोऽपि करन्यस्तहनुर्बाष्पायितेक्षणः । असंमात्रेव वैदयां दुःखेनाधिष्ठितोऽवदत् ।। ७४७ ।। मा शोचीरीदृशं कर्मोदितं ते दुःखकारणम् । पिता ते सार्थवाहोऽयं भ्राताहं सुखमास्व तत् ।। ७४८ ।। प्रभाते सार्थवाहोऽपि प्राप्याचलपुरं पुरम् । मुमोच तत्र वैदर्भीमन्यतोऽगात् स्वयं पुनः ॥७४९ ।। तृषिता नगरद्वारवाप्यामाशु विवेश सा । लक्षिता जलहर्जीभिर्मूर्त्तव जलदेवता ॥७५०॥ वामोऽङ्घिर्गोधया तस्या जग्रसे जलसीमनि । आयाति दुःखिनां दुःखं तत्सौहृदादिव ।।७५१ ॥ सापाठीन्त्रिनमस्कारं तत्प्रभावेण गोधया । मुक्तोऽमिरिंद्रजालिक्या गलांतभृतवस्त्विव ।।७५२ ।। मुखाङ्ग्रिहस्तं प्रक्षाल्य पीत्वा तद्वारि हारि च । मंद मंद मरालीव सा वाप्या निर्ययौ बहिः ॥७५३ ।। सा विषण्णा निषण्णा च शीलरत्नकरंडिका । वरंडिका तटे वाप्याः पावयंती दृशा पुरम् ।। ७५४ ।। १ भीताः । " मुखस्याधोभागः, लोके 'हडपची' 1. गुजरे घो' | + सुंदरम् ।
ऽचलपुराप्तिः ।
|| १४८॥