________________
त्रिषष्टिशलाकापुरुषचरिते ।।१४७॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
इत्युक्त्वा सार्थवाहस्तां स्नेहलः स्वां सुतामिव । अधिरोप्योत्तमे याने गंतुं प्रास्थित सत्वरः ।। ७२९ ।। अथैकस्मिन्नद्रिकुंजे वारिझात्कारनिर्झरे । सार्थमावासयामास सार्थनाथशिरोमणिः ।।७३० ।। वैदर्भी सुस्थिता तत्र सुखसुप्ताशृणोन्निशि । नमस्कारं पठ्यमानं केनचित्सार्थवर्तिना ।। ७३१ ।। उवाच सार्थवाहं सा नमस्कारं पठन्नसौ । साधर्मिको मे तदमुं दिदृक्षेऽहं त्वदाज्ञया ।। ७३२ ।। तस्याः पूरयितुं वांछां सार्थवाहः पितैव सः । तामादाय नमस्कारश्रावकस्याश्रयं ययौ ।। ७३३ ॥ तं श्रावकं बंधुमिव कुर्वाणं चैत्यवंदनाम् । ददर्शाथ पटौकस्थं भैमी शममिवांगिनम् ।। ७३४ ।। आचैत्यवंदनं भैमी तत्रास्थाच्च निषेदुषी । तं महाश्रावकमनुमोदमानाश्रुपूर्णदृक् ।। ७३५ ।। ददर्श वंद्यमानं च पटालिखितमाहतम् । जीमूतश्यामलं बिंब ववंदे च नलप्रिया ।। ७३६ ।। चैत्यवंदनपर्यंते कृतस्वागतमंगलम् । भैमी पप्रच्छ तं भ्रातः कस्येदं बिंबमर्हतः ।। ७३७ ॥ श्रावकः कथयामास धर्मशीले स्वसः शृणु । मल्लेरेकोनविंशस्याहतो बिंब भविष्यतः ।। ७३८ ।। भविष्यतोऽर्हतो बिंब कारणात् पूजयाम्यहम् । तच्चाद्य श्रृणु कल्याणि मम कल्याणकारणम् ।।७३९ ॥ अब्धिकांचीशिरोरत्ने कांचीपुर्यामहं वणिक् । तत्रान्यदा धर्मगुप्तो ज्ञानवान् मुनिराययौ ।। ७४० ।। सः मुनिः समवासार्षीदुद्याने रतिवल्लभे । तं वंदित्वा पर्यपृच्छं क्व तीर्थे निर्वृतिर्मम ।। ७४१ ।। १ मोक्षः । वस्त्रेण निर्मितं गृहम् - लोके 'तंबू' ।+ मेघ ।
दवदंत्या जिनोपासना।
|| १४७||