________________
त्रिषष्टिशलाकापुरुषचारते ।।१४६॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
शून्योपवनकुल्यायामिव तस्यामनभसि । उदन्यंती दवदंती शुष्यत्तालुरदोऽवदत् ॥७१६ ॥ यदि मे मानसं सम्यग्दर्शनेनाधिवासितम् । तदत्रोद्वीचिवार्यस्तु गंगायामिव निर्मलम् ।। ७१७ ॥ इत्युक्त्या पार्णािघातेन भूतलं प्रजहार सा । सद्यो नद्यंबुयुक्ताभूदिंद्रजालनदीव सा ।। ७१८ ॥ क्षीरोदधिसिरोद्भूतमिव स्वादु यथारुचि । करेणुकेव तभैमी पपौ क्षीरोज्वलं जलम् ।।७१९ ।। ततोऽपि यांती वैदर्भी परिश्रममुपेयुषी । उपाविशद्वटस्याधो वटवासिवधूरिव ।। ७२० ॥ तां तथा स्थामथाद्राक्षुः पांथाः सार्थादुपागताः । ऊचुश्च कासि भद्रे त्वं देवीव प्रतिभासि नः ॥७२१ ।। सोचे मास्म्यहं सार्थभ्रष्टारण्ये वसामि च । यियासुस्तापसपुरं नियुग्ध्वं मां तदध्वनि ।। ७२२ ॥ तेऽवोचन् याती यत्रास्तं रविस्तां दिशमाश्रयेः । तवाध्वानं दर्शयितुं नेश्महे वयमुत्सुकाः ॥ ७२३ ।। वारि चादाय यास्यामः सार्थे स्वस्मिन्नितोऽस्ति सः । तत्रैषि चेन्नयामस्त्वां वसति क्वापि पत्तने ॥७२४ ॥ तं सार्थं तैः सहागाच्च तत्र तां करुणापरः । धनदेवः सार्थवाहोऽपृच्छत् का त्वं किमत्र च ।। ७२५ ॥ भैम्यूचेऽस्मि वणिकपुत्री समं भ; पितुह । चलिता निशि सुप्तापि तेन त्यक्तास्मि वर्त्मनि ।।७२६ ॥ त्वदीयैः पुरुषैरत्रानीताहं सोदरैरिव । तन्मां नय महाभाग स्थाने वसति कुत्रचित् ॥७२७ ॥ सार्थेशोऽवददचलपुरे यास्याम्यहं पुरे । त्वमप्यागच्छ हे वत्से त्वां हि नेष्यामि पुष्पवत् ।। ७२८ ।। १ उदकमिच्छंतीम् । २ वटवासी यक्षस्तस्य वधूरिव ।
दवदंत्या साथैण सहाचलपुरं प्रतिगमनम् ।
|| १४६||