________________
त्रिषष्टिशलाकापुरुषचरिते ।।१४५॥
अष्टमं पर्व तृतीयः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कोऽयमाप्याययति मामिति भीमसुता सती । अधावतानु तच्छब्दं शब्दवेधीव मार्गणः ।।७०३ ।। भीमजाया गुहामध्याकर्षणप्रतिभूरिव । तां गुहाया स आकृष्य क्वचनापि तिरोदधे ।। ७०४ ।। सा ददर्श न तं पांथमत्यजत्तां गुहामपि । इत्यभूदुभयभ्रष्टा दैवं दुर्बलघाति हि ।। ७०५ ।। पतिता सा महारण्ये ययौ तस्थावुपाविशत् । व्यलुठद्व्यलपद्भूयो भूयोऽश्रांतं रुरोद च ।। ७०६ ॥ किं करोमि क्व यामीति विमृशंती विमर्शवित् । तामेव गंतुमारेभे कंदरामादरेण सा ।। ७०७ ।। सा राक्षस्यैकया दृष्टा छागी वृक्येव वर्मनि । प्रसारितास्यगुहया खादिष्यामीति चौच्यत ।। ७०८ ।। भैम्यूचे यदि मे भर्ता नलो मनसि नापरः । तत्सतीत्वप्रभावेण हताशा भव राक्षसि ॥७०९ ॥ सर्वज्ञो भगवानष्टादशदोषविवर्जितः । यद्यर्हन्नेव देवो मे हताशा भव राक्षसि ।।७१० ॥ अष्टादशब्रह्मरता विरताः करुणापराः । साधवो गुरवश्वेन्मे हताशा भव राक्षसि ।। ७११ ॥ आजन्मापि मम स्वांते विलग्नो वज्रलेपवत् । अस्ति यद्यार्हतो धर्मो हताशा भव राक्षसि ।।७१२ ।। तच्छुत्वा राक्षसवधूरमुंचत्तच्चिखादिषाम् । महर्द्धय इवामोघवचना हि पतिव्रताः ।। ७१३ ।। न सामान्येयमन्यूनप्रभावेति प्रणम्य ताम् । क्षणादपि तिरोधत्त स्वप्नायातेव राक्षसी ।। ७१४ ।। यांती चाग्रे जलाकारतरंगीभूतवालुकाम् । ददर्शाद्रिनदीमेकां निर्जलां नलवल्लभा ॥७१५ ॥ १ वर्धापयति आनंदयतीति यावत् । २ बाणः । ३ खादितुमिच्छा चिखादिषा ताम् ।
दवदंत्या चिखादिषुराक्षसीशमनम् ।
|| १४५||