________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४४॥
अष्टम पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
आसन्नं मरणं ज्ञात्वा ततोऽभैषमकपिषि । महाभयं प्राणभयं सर्वेषामपि देहिनाम् ।। ६९० ।। सूरिर्मा स्माह मा भैषी वत्सादत्स्वानगारताम् । अप्येकाहपरिव्रज्यावश्यं स्वर्गापवर्गदा ।। ६९१ ।। ततः प्रव्रजितोऽमुष्मादस्यादेशादिहागमम् । शुक्लध्याने स्थितो घातिक्षयात् केवलमासदम् ।। ६९२ ।। इत्युक्त्वा रचयन्योगनिरोधं सिंहकेशरी । भवोपग्राहिकर्माणि हत्वागात् परमं पदम् ।। ६९३ ।। पुण्यक्षेत्रे सुरैर्नीत्वा तस्य केवलिनो वपुः । तत्कालमग्निसंस्कारपात्रीचक्रे शुभाशयैः ।। ६९४ ।। यथार्थनामा विमलमतिः कुलपतिस्तु सः । प्रव्रज्यां श्री यशोभद्रसूरिपादांतिकेऽग्रहीत् ।। ६९५ ।। दवदंत्यपि दांतात्मा तं महर्षिमभाषत । ममापि भगवन् देहि प्रव्रज्यां मुक्तिमातरम् ।। ६९६ ।। यशोभद्रोऽवदत्सरिरद्यापि दवदंति ते । नलेन सह भोक्तव्या भोगा नार्हसि तव्रतम् ।। ६९७ ॥ विभातायां विभावाँ सूरिरुत्तीर्य पर्वतात् । पादैः पवित्रयामास तत्तापसपुरं पुरम् ।। ६९८ ॥ तत्र चैत्यं नमस्कृत्य सोऽर्हद्धर्मोपदेशकः । सम्यक्त्वारोपणं चक्रे पौराणां करुणानिधिः ॥ ६९९ ।। मलीमसांगवसना धर्मध्यानपरायणा । सप्ताब्दी तत्र भैम्यस्थाद्भिक्षुणीव गुहागृहे ।। ७०० ॥ पांथ एकोऽन्यदा तस्याः कथयामास यन्मया । दृष्टोऽमुकप्रदेशेऽद्य दवदंति पतिस्तव ॥७०१ ।। दवदंत्यपि तत्कालं पीततद्वचनामृता । रोमांचोच्छ्वसदंगाभूदिदं प्रेम्णो हि लक्षणम् ।। ७०२ ।।
दवदंत्या सप्तसंवत्सरं यावद्
गुहायां
वसनम् ।
| || १४४॥