________________
त्रिषष्टिशलाकापुरुषचरिते ।।१४३।।
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
भोस्तापसाः पूर्वभवे तत्कोपाचरणं मम । क्षमध्वं पालयत च प्रपन्नं श्रावकव्रतम् ।।६७७ ।। इत्युक्त्वा तमहे: कायमाकृष्य गिरिकंदरात् । उल्लंब्य नंदिवृक्षे च प्रोवाच कुसुमप्रभः ॥ ६७८ ।। यः कोऽपि कोपं कुरुते लोकाः कोपफलेन हि । स ईदृशो भवेत् सर्पः कर्परोऽहं यथा पुरा ।। ६७९ ।। अग्रेऽपि सम्यक्त्वधरस्तदा कुलपतिः स तु । भाग्योदयेन वैराग्यं परमं प्रत्यपद्यत ।। ६८० ॥ अथ केवलिनं नत्वा तापसानामधीश्वरः । व्रतं ययाचे वैराग्यशाखिनः फलमुत्तमम् ।।६८१ ॥ केवल्यूचे यशोभद्रसूरिरेष तव व्रतम् । दास्यत्यसावेव गुरुर्ममाऽस्ति समताधनः ।।६८२ ॥ पुनर्विस्मयमापन्नोऽपृच्छत् कुलपतिर्मुनिम् । गृहीतवानसि कथं प्रवज्यां भगवन् वद ।। ६८३ ।। केवल्याख्यत् कौशलायां नगर्यां नलभूपतेः । अनुजः कुरुते राज्यं कूबरो वरवैभवः ।। ६८४ ॥ सूनुस्तस्यास्म्यहं संगानगरीशो ममादित । नृपतिः केशरी बंधुमती नाम निजात्मजाम् ।। ६८५ ।। पित्रादिष्टस्तत्र गत्वा पर्यणैषं च तामहम् । नवोढां च समादायाचालिषं स्वपुरं प्रति ॥ ६८६ ॥ मार्गे चागच्छतानेकशिष्यो गुरुरयं मया । अदर्शि समवसृतः कल्याणमिव मूर्तिमत् ॥ ६८७ ॥ तत्र भक्त्या परमया वंदितोऽयं मुनिर्मया । कर्णामृतप्रपाधर्मदेशना चास्य शुश्रुवे ।। ६८८ ।। देशनांते मया पृष्टः कियदायुर्ममेत्यसौ । दत्तोपयोगश्चावोचत् पंचैव दिवसा इति ।। ६८९ ॥ १ अदित दत्तवान् ।२ तृतीयैकवचनम् ।
कर्परदेवस्य वृत्तान्तः।
।। १४३ ॥