________________
त्रिषष्टिशलाकापुरुषचरिते ॥१४२॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
नमस्काराक्षरैः सद्यः पतितैः कर्णगोचरम् । धृतः संदशकेनेव नाभिगंतुमशक्नुवम् ।। ६६४ ॥ पुनश्च दर्यामेकस्यां प्राविशं हतशक्तिकः । भेकादीनाहरजीवानजीवं तत्र च स्थितः ।। ६६५ ।। अन्यदा वर्षति घने तापसानां पुरस्त्वया । कथ्यमानमिमं धर्ममश्रौषं पैरमार्हति ।। ६६६ ॥ यो जीवहिंसां कुरुते स संसारे निरंतरम् । भ्रमन् दुःखान्यवाप्नोति मरुभूमाविवाध्वगाः ।। ६६७ ।। तच्छुत्वाचिंतयं चाहं जीवहिंसापरः सदा । पापात्मा पन्नगोऽस्म्येष का गतिर्मे भविष्यति ।।६६८ ॥ मयैवमूहापोहाम्यां ज्ञातं यत्तापसा इमे । क्व नामैते मया दृष्टा इति भूयोऽप्यचिंतयम् ।। ६६९ ॥ तदा च जातिस्मरणमुत्पेदे मम निर्मलम् । अस्मार्षं ह्यः कृतं कार्यमिव पूर्वभवं ततः ।। ६७० ।। उत्कल्लोलसिरानीरमिव वैराग्यमक्षयम् । ममोदपद्यताकार्षमथानशनमात्मना ।। ६७१ ।। ततो विपद्य सौधर्मे कल्पेऽभूवमहं सुरः । तपःक्लेशसहानां हि न मोक्षोऽपि दवीयसि ।। ६७२ ।। सोऽहं विमाने कुसुमसमृद्धे कुसुमप्रभः । नाम्ना देवोऽस्मि भुंजानः स्वःसुखं त्वत्प्रसादतः ।। ६७३ ।। यदि ते धर्मवचनं न स्यान्मे कर्णगोचरम् । तदा क्वैषा गतिर्मे स्यात् पापपंकमहाकिरेः ।। ६७४ ।। विज्ञाय चावधिज्ञानाद्भद्रे त्वामुपकारिणीम् । द्रष्टुमत्रागमं धर्मपुत्रस्तेऽहमतः परम् ।। ६७५ ।। वैदा ज्ञापयित्वा स्वं स गीर्वाणोऽथ तापसान् । उवाच श्लक्ष्णया वाचा बंधून ग्रामागतानिव ।। ६७६ ।। १ संदंशकः सर्पग्रहणाय काष्टयंत्रम् । २ भक्षयन् । ३ संबोधनमेतत् ४ स्वर्गसुखम् । ५ पापकर्दममहासूकरस्य ।
कर्परदेवस्य वृत्तान्तः।
|| १४२॥