________________
त्रिषष्टिशलाकापुरुषचरिते ||१४१॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सतीत्वेनाहतीत्वेन चामुष्या देवता अपि । सदा सान्निध्यकारिण्योऽरण्येऽप्यस्यास्ततः शिवम् ॥६५१ ॥ सार्थोऽस्य सार्थवाहस्य चौरेभ्यो रक्षितः पुरा । अस्या हुंकारमात्रेण प्रभावोऽतः परं हि कः ।। ६५२ ॥ तदा च कश्चिदप्यागात्तत्र देवो महर्द्धिकः । स वदित्वा केवलिनमूचे भैमीमभीमवाक् ।। ६५३ ॥ भद्रे तपोवनेऽमुष्मिन् शिष्यः कुलपतेरहम् । अभूवं कर्परो नाम तपस्तेजोदुरासदः ।। ६५४ ॥ पंचाग्निसाधकमपि ते तपोवनतापसाः । न मामपूजयन्नापि वचसाप्यभ्यनंदयन् ।।६५५ ।।
ततोऽहमभिमानेन तद्विहाय तपोवनम् । द्रुतमन्यत्र गतवानाविष्टः क्रोधरक्षसा ।। ६५६ ॥ | नीरंध्रतिमिरायां च यामिन्यां त्वरितं व्रजन् । पतितोऽद्रिकंदरायामहं वार्यामिव द्विप ।। ६५७ ॥ सर्वे दंता गिरिदंतास्फालितास्यस्य मे तदा । जीर्णशुक्तिपुटानीव व्यशीर्यंत सहस्रधा ।। ६५८ ॥ सप्तरात्रं तथैवास्थां दंतपातव्यथातुरः । दुःस्वप्नस्येव मे वार्तामपि चक्रुर्न तापसाः ॥६५९ ।। ततः स्थानान्मयि गते गृहादिव महोरगे । प्रत्युताभूत् सुखं तेषां तापसानां महत्तरम् ।।६६०॥ तापसानां ततस्तेषामुपर्याविरभून्मम । प्रदीपनकवह्नयाभः क्रोधो दुःखानुबंधकः ।। ६६१ ॥ जाज्वल्यमानः क्रोधेन दुर्मनाः प्राप्य पंचताम् । इहैव तापसारण्ये महाविषधरोऽभवम् ।। ६६२ ॥ दशनायान्यदाहं तेऽधाविषं स्फारयन् फणान् । नमस्कारश्च पठितस्त्वया मद्गतिरोधकः ।। ६६३ ।। १ वारी हस्तिबंधनरज्जुस्तस्याम् ।
कर्परदेवस्य वृत्तान्तः।
|| १४१॥