________________
अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ।।१४०॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अन्यदा तु निशीथेऽदिशिखरे नलवल्लभा । ददर्शोद्योतमादित्यः स्फुलिंग इव यत्पुरः ।। ६३८ ।। उत्पततो निपततस्ततश्च पतगानिव । भैमी व्यलोकयद्देवासुरान् विद्याधरानपि ।। ६३९ ।। तेषां जयजयारावतुमुलेन प्रबोधिताः । अपश्यन् विस्मयोत्पश्या वणिजस्तापसाश्च ते ।। ६४० ।। रोदस्योरंतरात्मानं दंडरुपं महागिरिम् । तमारुरोह वैदर्भी सवणिजस्तापसाश्च ते ।। ६४१ ॥ तत्रोत्पन्नकेवलस्य सिंहकेसरिणो मुनेः । केवलिमहिमानं ते प्रारब्धं ददृशुः सुरैः ।। ६४२ ।। द्वादशावर्तपूर्वं ते वंदित्वा तं महामुनिम् । तत्पादमूले न्यषदन् द्रुममूल इवाध्वगाः ।। ६४३ ।। आगाद्यशोभद्रसूरिस्तदा तस्य मुनेर्गुरुः । तं च केवलिनं ज्ञात्वा वंदित्वा न्यषदत् पुरः ।। ६४४ ॥ सिंहकेसर्यपि स्वामी करुणारससागरः । मर्माविधमधर्मस्य विदधे धर्मदेशनाम् ।। ६४५ ।। मानुष्यं दुर्लभं हंत प्राणिनां भ्रमतां भवे । तल्लब्ध्वा सफलं कार्य स्वयमुप्त इव द्रुमः ॥६४६ ।। मानुष्यकस्य च फलमाददीध्वं सुमेधसः । मुक्तिप्रदं जीवदयाप्रधानं धर्ममार्हतम् ।। ६४७ ।। श्रोतृश्रोत्रसुधासारं धर्ममाख्याय पावनम् । स महर्षिः कुलपति प्रोचे तत्संशयच्छिदे ।। ६४८ ॥ दवदंत्या तवाख्यातो धर्मो यः स तथैव हि । अर्हद्धर्माध्वपथिकी भाषते नेयमन्यथा ।। ६४९ ।। महासतीयमाजन्माईती वो दृष्टप्रत्यया । तदा हि वर्षजीमूतो रेखाकुंडे धृतोऽनया ॥ ६५० ।। १ विस्मयेनोवं पश्यति ते तथा ।
सिंहकेसरिणो मुनेः केवलज्ञानम् देशना च।
|| १४०॥