________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३९॥
| अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
गह्वराणि गिरेस्तस्याभूवन् वर्षति वारिदे । परितो वारिपूर्णानि पूर्तानीवांबुदश्रियः ।। ६२५ ॥ तदृष्ट्वाचिंतयन् सर्वे काप्येषा खलु देवता । मानव्या नेदृशं रुपं न च शक्तिरपीदृशी ।। ६२६ ।। सार्थवाहो वसंतस्तां पप्रच्छ स्वच्छधीरथ । भद्रे कथय को नाम देवोऽयं पूज्यते त्वया ।। ६२७ ॥ भैम्यप्याख्यत् सार्थवाह देवोऽर्हन् परमेश्वरः । त्रैलोक्यनाथो भविनां प्रार्थनाकल्पपादपः ।। ६२८ ।। आराधयंत्यहममुमिह तिष्ठामि निर्भया । एतत्प्रभावात् प्रभवंत्यत्र व्याघ्रादयो न मे ।। ६२९ ।। अर्हत्स्वरुपमाख्याय वैदर्भी धर्ममार्हतम् । वसंतसार्थवाहायाहिंसादिकमचीकथत् ।। ६३० ।। तं च धर्म तयाख्यातं वसंतः प्रत्यपद्यत । धर्मकामगवी दिष्ट्या दृष्टासीति मुदावदत् ।। ६३१ ॥ हेयोपादेयविद्रूपतापसा अपि तद्गिरा । तद्धर्म प्रत्यपद्यतानुस्यूतमिव चेतसि ।। ६३२ ।। निजं तापसधर्म तेऽनिंदस्तद्धर्मवासिताः । अवाप्तक्षीरपाणाय कस्मै रोचेत कांजिका ।। ६३३ ।। वसंतसार्थवाहोऽपि तत्रैवावासयत् पुरम् । पुरंदरपुराकारं महेभ्यैर्यन्न मुच्यते ।। ६३४ ।। तापसानां पंचशती प्रबुद्धात्रेति कारणात् । तत्पुरं तापसपुरमिति सर्वत्र पप्रथे ।। ६३५ ।। स्वार्थज्ञः सार्थवाहो हि स स्वमर्थं कृतार्थयन् । चैत्यं श्रीशांतिनाथस्य पुरे तस्मिन्नकारयत् ।। ६३६ ।। स सार्थवाहस्ते सर्वे तापसाः स जनोऽखिलः । समयं गमयामासुरर्हद्धर्मपरायणाः ।। ६३७ ।।
| दवदंत्या
तापसादीनां
प्रतिबोधः ।
|| १३९॥