________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३८॥
अष्टमं पर तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
चतुर्थादितपःप्रांते पारणं परमाहती । प्रासुकैर्बीजरहितैः कृतिन्यकृत सा फलैः ।। ६१२ ।। सोऽपश्यन् सार्थवाहोऽपि सार्थमध्ये नलप्रियाम् । आगादनुपदं तस्याः क्षेममस्त्विति चितयन् ।। ६१३ ॥ गुहायामागतस्तस्यां सार्थवाहो ददर्श च । दवदंतीमर्चयंतीमर्हदिबबं समाधिना ।। ६१४ ।। दृष्ट्वा क्षेमवती भैमी सार्थवाहः प्रमोदभाक् । नत्वा चोपविशद्भूमौ विस्मयस्मेरलोचनः ।। ६१५ ॥ भैमी समाप्याहत्पूजां स्वागतप्रश्नपूर्वकम् । सार्थेशं वार्तयामास सुधामधुरया गिरा ।। ६१६ ।। अदूरवासिनः केऽपि तापसास्तत्र सत्वरम् । आगुस्तच्छब्दमाकर्योत्कर्णाश्चास्थुमूंगा इव ।। ६१७ ॥ धाराधरोऽम्बुधाराभिर्दुर्धराभिर्धराधरम् । ताडयन्नभितष्टकैरिवारेभे च वर्षितुम् ।। ६१८ ॥ आहन्यमाना भल्लीभिरिव धाराभिरंभसाम् । ते प्रोचिरे क्व गच्छामः क्व पयो वंच्यतामिदम् ।। ६१९ ।। दृष्टवा च तान् कादिशिकान् श्वापदानिव तापसान् । उवाच भैमी मा भैष्ट मा भैष्टेति प्रकृष्टवाक् ।। ६२० ।। कृत्वा च परिधौ तेषां कुंडं कुडिनराट्सुता । सतीधुरंधरा धीरं व्याजहारातिहारिवाक् ॥ ६२१ ।। सत्यस्मि यद्यहं यद्यार्हती ऋजुमना यदि । कुंडात्तदस्मादन्यत्र वर्षतु स्तयित्नवः ।। ६२२ ।। तदैव भीमतनयासतीत्वस्य प्रभावतः । कुंडे धृतच्छत्र इव पयस्तत्रापतन्न हि ।। ६२३ ।। पर्वतः सर्वतोऽपि द्राग्धौतो नीरैरराजत । निर्मलः श्यामलवपुर्नदीस्नात इव द्विपः ।। ६२४ ।। १ कृतिनी-पंडीता । २ टंक-भाषायां 'टांकणु' ।३ भल्ली-भाषायां 'मालो' । ४ मनोहारीवाक् । ५ मेघाः ।
दवदंत्या तापसानां रक्षणम् ।
॥ १३८॥