________________
| अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥१३७॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
इति धैर्येण वैदा हृष्टः स रजनीचरः । उवाच भद्रे तुष्टोऽस्मि किं तवोपकरोम्यहम् ॥ ६०० ।। साप्यूचे यदि तुष्टोऽसि देवयोने निशाचर । तर्हि पृच्छामि कथय कदा मे पतिसंगमः ॥६०१ ॥ विज्ञायावधिना तस्यै कथयामास राक्षसः । संपूर्ण द्वादशे वर्षे प्रवासाहाद्यशस्विनि ।। ६०२ ।। पितृवेश्मस्थितायास्ते स्वयमेव समागतः । मिलिष्यति नलो राजा समाश्वसिहि संप्रति ।।६०३ ।।
॥युग्मम् ॥ कल्याणि भणसि त्वं चेत्तदा त्वां तातवेश्मनि । नयाम्यर्धनिमेषेण यासीर्माऽऽयासमध्वनि ।।६०४ ।। सा प्रोचे कृतकृत्यास्मि नलागमनशंसनात् । परपुंसा सह नाहं प्रयामि स्वस्ति ते व्रज ॥६०५ ।। दर्शयित्वा निजं रुपं स ज्योतिर्मयमात्मनः । उत्पपातांबरतले तडित्पुंज इव क्षणात् ।। ६०६ ।। पत्युः प्रवासं विज्ञाय सापि द्वादशहायनीम् । चकाराभिग्रहानेवं सतीत्वद्रुमपल्लवान् ।। ६०७ ।। रक्तवस्त्राणि तांबूलं भूषणानि विलेपनम् । विकृतीरपि नादास्ये न यावन्मिलितो नलः ।।६०८ ॥ गिरेरेकस्य च प्राप्य कंदरां दरवर्जिता । भैमी प्रावृषमत्येतुं तत्रैवावस्थितिं व्यधात् ।। ६०९ ।। सा बिंबं शांतिनाथस्य स्वयं निर्माय मृन्मयम् ।न्यवीविशद्गुहाकोणे मनसीवामले निजे ।।६१० ॥ स्वयंगलितपुष्पाणि स्वयमानीय भीमजा । त्रिसंध्यं पूजयामास तदिंबबं षोडशार्हतः ।। ६११ ॥ १ हे देव । २ प्रवासदिनात् । ३ भयवर्जिता । " हायन-वर्ष ।
दवदंत्या राक्षसेण पतिसंगमज्ञानम् ।
|| १३७॥