________________
अष्टम पर्व तृतीयः
त्रिषष्टिशलाका-|| पुरुषचरिते ।।१३६॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
अखातसरसां वारिपूर्णानां दर्दुरारवैः । नदद्द१रकातोद्यामयीवोपांतभूरभूत् ।। ५८८ ॥ बभूव सर्वतोऽरण्ये वाराहीदोहदप्रदः । पंकः पादेषु पांथानां मोचकप्रक्रियाकरः ।। ५८९ ।। त्रिरात्रमनवच्छिन्ना वृष्टिरासीत्तदोत्कटा । भैमी त्वस्थात् सुखं तत्र प्राप्तेव पितृवेश्मनि ।। ५९० ।। वर्ष वर्ष स्थिते मेघे दवदंती महासती । सार्थं हित्वा पुनरपि प्राग्वदेकाकिनी ययौ ।। ५९१ ।। नलप्रवासदिवसादपि भीमसुता सती । चतुर्थादितपोलीनात्यगान्मार्ग शनैः शनैः ।। ५९२ ।। उत्पिंगलकचं शैलमिव दीप्तदवानलम् । जिह्वाज्वालाकरालास्यं द्विजिह्नमिव दारुणम् ।। ५९३ ।। कर्तिकादारुणकरं तालदनकृशक्रमम् । अमावास्यातमःश्यामं घटितं कज्जलैरिव ।। ५९४ ।। शार्दूलचर्मसंव्यानं भीषणेभ्योऽपि भीषणम् । रक्षोऽद्राक्षीदथैकं स पुत्रं पितृपतेरिव । ।। ५९५ ॥
॥त्रिभिर्विशेषकम् ।। बुभुक्षाक्षामकुक्षेमें चिराद्भक्ष्यमुपस्थितम् । मंक्षु त्वां भक्षयिष्यामीत्युवाच च स राक्षसः ॥ ५९६ ॥ भीताप्यथावदद्धैर्यमालंब्य नलगेहिनी । श्रुत्वा मदीयं वचनं यथारुचि त्वमाचरेः ॥५९७ ॥ जातस्य हि ध्रुवं मृत्युरकृतार्थस्य मृत्युभीः । आजन्म परमार्हत्याः कृतार्थायास्तु सा न मे ।। ५९८ ।। परस्त्रियं मा स्पृश मां स्पृशन्नपि न नंदसि । मामाक्रोशेन मूढात्मन्नेषास्मि विमृश क्षणम् ।। ५९९ ॥ १ वराहस्त्री । २ अति-अगात् । ३ तालवृक्षप्रमाणौ कृशौ क्रमौ पादौ यस्य तम् । ४ यमस्येव । " उद्गता पीतकेशाः यस्य तम् । + सर्पः
दवदंत्या राक्षसेण पतिसंगमज्ञानम् ।
|| १३६ ॥