________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३५॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
दवदंती
हं हो मा भैष्ट मा भैष्ट लोकाः सार्थनिवासिनः । इति तत्कुलदेवीवोवाच वाचं नलप्रिया ।। ५७५ ।। व्याजहार च सा चौरान् रे रे यात दुराशयाः । रक्ष्यमाणे मयामुष्मिन् सार्थेऽनर्थमवाप्स्यथ ।। ५७६ ।। एवं वदंतीमपि हि दवदंती मलिम्लुचाः । वातूलामिव भूतात्तामिव चाजीगणन्न हि ।। ५७७ ॥ ततो मुमोच हुंकारांश्चौराहंकारदारणान् । कुडिनाधीशदुहिता हितार्थं सार्थवासिनाम् ।। ५७८ ।। श्रुतैश्च तस्या हुंकारैर्बधरीकृतकाननैः । दस्यवस्ते पलायंत धनुन दैरिव द्विकाः ।। ५७९ ।। अस्मत्पुण्यैः समाकृष्टा काप्येषा देवता खलु । अस्मानरक्षच्चौरेभ्य इति सार्थजनोऽवदत् ।। ५८० ।। सार्थनाथोऽपि तां भक्त्या प्रणम्य जननीमिव । पप्रच्छ किमिहारण्ये परिभ्रमसि कासि वा ।। ५८१ ।। साश्रुदृग्बांधवायेव सार्थवाहाय भैम्यपि । अशंसदानलद्यूतात् सर्वं वृत्तांतमात्मनः ।। ५८२ ।। उवाच सार्थवाहोऽपि महाबाहोर्महीपतेः । नलस्य पत्नीत्यपि मे पूज्यास्यद्यास्मि पुण्यभाक् ।। ५८३ ॥ त्वयोपकारक्रीताः स्मस्तस्करेभ्यश्च रक्षणात् । तत्पुनीहि ममावासं स्तोकं यक्रियते त्वयि ।। ५८४ ।। एवमुक्त्वा सार्थवाहो नीत्वा पटगृहे निजे । भैमी विश्रामयामास राधयन् देवतामिव ।। ५८५ ॥ वर्षानाटकनांद्याभां गर्जामुच्चैर्विपंचयन् । अखंडधारां विदधे वृष्टिं धाराधरस्तदा ।। ५८६ ।। स्थाने स्थाने परीवाहैः प्रवहद्भिर्निरंतरैः । ससारणिकमुद्यानमिवाभूदभितोऽपि भूः ।। ५८७ ॥ १ काकाः । २ पूजयन् । नलस्य घूतात् आरभ्य ।
सतीत्वप्रभावः।
॥ १३५॥