________________
अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ।।१३३॥
तर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
स्वप्नार्थमिति निर्णीय सा दध्याविति धीमती । न राज्यं न पतिश्चेति द्वयमापतितं मम ।। ५५० ।। व्यलपन्मुक्तकंठं च सा तारं तारलोचना । दुर्दशापतितानां हि स्त्रीणां धैर्यगणः कुतः ।। ५५१ ।। हा नाथ मां किमत्याक्षीः किं भाराय तवाभवम् । न ह्यात्मीया कंचुलिका जातु भाराय भोगिनः ।। ५५२ ।। नर्मणान्तरितोऽभूस्त्वं यद्वा वल्लीवने क्वचित् । तत्प्रकाशो भव चिरं न हि नापि शर्मदम् ।। ५५३ ।। प्रार्थये वः प्रसीदतु मह्यं हे वनदेवताः । प्राणेशं दर्शयत मे मार्ग वा तत्पवित्रितम् ।। ५५४ ॥ द्विधा भव धरित्रि त्वं वालुकमिव पाकिमम् । त्वद्दत्तविवरेणाहं प्रविश्याप्नोमि निर्वृतिम् ।। ५५५ ।। एवं भैमी विलपंती रुदंती नयनोदकैः । सारणीवारिभिरिव सिषेचारण्यपादपान् ।। ५५६ ।। जले स्थले वा छायायामातपे वा नलं विना । ज्वरार्ताया इव तस्या न निर्वृतिलवोऽप्यभूत् ।। ५५७ ।। भ्रमंत्यटव्यां संव्यानांचले दृष्ट्वाक्षराणि सा । वाचयामास हर्षेण विकसन्नयनांबुजा ।। ५५८ ।। दध्यौ च तन्मनःपूर्णसरोहस्यस्मि खल्वहम् । कुतोऽन्यथैवमादेशप्रसादास्पदता मम ।। ५५९ ।। एतच्च पत्युरादेशं मन्ये गुरुवचोऽधिकम् । कुर्वंत्या मे तदादेशमिहलोकोऽतिनिर्मलः ।। ५६० ॥ तव्रजामि पितुर्वेश्म सुखवासनिबंधनम् । पति विनापि तद्वेश्माभिभवायैव योषिताम् ।। ५६१ ।। पत्या सहापि हि मया पितृवेश्म यियासितम् । विशेषतोऽद्य तद्यामि पत्यादेशवशंवदा ।। ५६२ ।। १ वालंक चिर्भटकं भाषायां 'चीभडु' इति ख्यातस्य नाम । २ पक्वम् ।
दवदंत्या स्वपितृवेश्म प्रति गमनम्।
| १३३॥