________________
त्रिषष्टिशलाकापुरुषचरिते ॥१३२॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
उन्निद्रपंकजामोदिमृदुप्रत्यूषमारुते । निशाशेषे दवदंती स्वप्नमेवमुदैक्षत ।। ५३७ ।। यदहं फलिते फुल्ले पत्रले चूतपादपे । आरुह्य तत्फलान्यादं शृण्वंती ,गनिःस्वनान् ॥५३८ ॥ अकस्माद्वनकरिणोदमूलि च स पादपः । पतिताहं च मेदिन्यां ततोऽड इव पक्षिणः ।। ५३९ ।। भैमी प्रबुद्धा तत्कालमपश्यंती नलं पुरः । दिशोऽवलोकयामास मृगी यूथादिव च्युता ।। ५४०॥ अचिंतयच्चापतितमत्याहितमनाहतम् । अशरण्यामरण्ये मां प्रेयानपि मुमोच यत् ।। ५४१ ॥ यद्वा मुखक्षालनाय प्राणेशो मे निशात्यये । गतो भविष्यति क्वापि वार्यानेतुं जलाशये ।। ५४२ ।। नीतो रमयितुं यद्वोपरुध्य नियतं नलः । कयाचिदपि खेचर्या तद्रूपालोकलुब्धया ।। ५४३ ।। क्रीडन् कलायां कस्यांचिज्जितो मन्ये तया च सः । कृतावस्थानपणतस्तस्थौ चाद्यापि नैति यत् ॥ ५४४ ॥ ते द्रुमाः पर्वतास्तेऽपि तदरण्यं च सा च भूः । एकमेव न पश्यामि नलं कमललोचनम् ।। ५४५ ।। एवं चिंताप्रपन्ना सा दर्श दर्श दिशोऽखिलाः । प्राणनाथमपश्यंती निजं स्वप्नं व्यचारयत् ।। ५४६ ।। सहकारो नलो राजा राज्यं पुष्पफलादिकम् । फलास्वादो राज्यसुखं भृगाः परिजनो मम ।। ५४७ ।। सहकारतर्यश्चोन्मूलितो वनदंतिना । राज्यादुत्थाप्य दैवेन प्रावास्यत स मे पतिः ।। ५४८ ।। यच्चास्मि पतिता वृक्षात्तद्भ्रष्टास्मि नलादहम् । स्वप्नेनानेन नूनं मे नलो दुर्लभदर्शनः ।। ५४९ ।।
। त्रिभिर्विशेषकम् ।। १ अनिष्टम् कष्टमिति यावत् । २ प्राणमयोत्पादकम् । ३ कदापि न युक्तम् ।
|नलेन कृतो दवदंतीत्यागः ।
॥ १३२॥