________________
त्रिषष्टिशलाकापुरुषचरिते ।।१३१॥
अष्टमं पर्व तृतीयः | सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अक्षराणि लिखित्वैवमशब्दं प्ररुदन्नलः । अग्रतो गंतुमारेभे चौरवन्निभृतक्रमः ।। ५२४ ।। प्रसुप्तां प्रेयसी पश्यन्नलो वलितकंधरः । तावदग्रे ययौ यावददृश्यत्वमियाय सा ।। ५२५ ।। अचिंतयच्च तां बालामनाथां शयितां वने । क्षुत्क्षामो भक्षयेद्वयाघ्रः सिंहो वा यदि का गतिः ।। ५२६ ॥ तदृष्टिविषयीकृत्य तां रक्षामि निशामहम् । प्रातः स्वरुचि यात्वेषा मया कथितयोः पथोः ।। ५२७ ।। तैरेव पादैर्वलितः पतितार्थः पुमानिव । दृष्ट्वा भूलुटितां जायां नलः पुनरचिंतयत् ।। ५२८ ।। दवदंत्येकवस्त्रेयमेका स्वपिति वर्मनि । अहो नलस्य शुद्धांतमसूर्यपश्यमीदृशम् ।। ५२९ ॥ अहो मत्कर्मदोषेण कुलीनेयं सुलोचना । प्रविवेश दशामेवं हताशः किं करोम्यहम् ।। ५३० ॥ मयि सत्यपि पार्श्वस्थेऽप्युन्मत्तवदनाथवत् । भूमौ शेते वरारोहा जीवत्यद्यापि ही नलः ।। ५३१ ॥ मयकाकिन्यसौ मुक्ता प्रबुद्धा मुग्धलोचना । भोक्ष्यते जीवितेनापि स्पर्द्धयेव मया सह ।। ५३२ ।। भक्तां तदेनां वंचित्वा नान्यतो गंतुमुत्सहे । जीवितं मरणं वापि मम स्तादनया सह ।। ५३३ ।। अथवानेकदुःखानामरण्ये नरकोपमे । पात्रं नारकिक इव भवाम्येकोऽहमस्त्वसौ ।। ५३४ ।। मया तु वस्त्रे लिखितामाज्ञां कृत्वा मृगाक्ष्यसौ । स्वयं गत्वा कुशलिनी वत्स्यति स्वजनौकसि ।। ५३५ ।। इति निश्चित्य तां रात्रिमतिक्रम्य च नैषधिः । प्रबोधसमये पल्यास्तिरोधात्त्वरितक्रमम् ।। ५३६ ॥ १ वरः श्रेष्ठ आरोहः शयनं यस्याः सा । २ 'ही' इति खेदे ।
नलेन कृतो दवदंतीत्यागः ।
|| १३१॥