________________
त्रिषष्टिशलाकापुरुषचरिते ||१३०॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
किंचिदग्रे परिक्रम्य तदिहावसथे वयम् । यामो यामवती तत्र सुखसुप्तैर्निगम्यताम् ।। ५११ ॥ नलः प्रोवाच हे भीरु तापसानामिहाश्रमः । अशुभोदर्कसंपर्कास्ते च मिथ्यादृशः सदा ।। ५१२ ।। अपि तापससंगत्या सम्यक्त्वं हि विनश्यति । मनोरमं क्षीरमिवारनालेन कृशोदरि ।। ५१३ ॥ तदत्रैव सुखं शेष्व मा कृथास्तन्मुखं मनः । भवामि यामिकोऽहं ते सौविदल्ल इव स्वयम् ।। ५१४ ।। तत्र पल्लवतल्पे स्वं संव्यानार्धमथाक्षिपत् । तूलिकां प्रच्छदवतीं प्रेयस्याः स्मरयन्नलः ॥ ५१५ ॥ वंदित्वा देवमहतं स्मृत्वा पंचनमस्कृतिम् । वैदर्भी तत्र चाशेत गांगे हंसीव रोधसि ।। ५१६ ॥ निद्रामुद्रितनेत्रायां वैदा कोशलेश्वरः । चिंतां चक्रे महावर्तमिव व्यसनवारिधेः ।। ५१७ ॥ श्वशुरः शरणं येषां नराणां ते नराधमाः । दवदंत्याः पितुर्गेहं तत्कथं यात्वसौ नलः ।। ५१८ ॥ हृदयं वज्रसात्कृत्वा तत्त्यक्त्वा प्रेयसीमपि । गच्छामि स्वेच्छयान्यत्रात्मानमादाय रंकवत् ।। ५१९ ।। शीलप्रभावाभैम्याश्च न स्यात्कश्चिदुपद्रवः । शीलं सतीनां सर्वांगरक्षामंत्रो हि शाश्वतः ।। ५२० ॥ इत्याकृष्य छुरी राजा स्वसंव्यानार्धमच्छिदत् । भैम्या वस्त्रे स्वरुधिरेणाक्षराणि लिलेख च ।। ५२१ ।। विदर्भेष्वेष यात्यध्वा वटालंकृतया दिशा । कोशलेषु च तद्वामस्तयोरेकेन केनचित् ।। ५२२ ।। गच्छेः स्वच्छाशये वेश्म पितुर्वा श्वशुरस्य वा । अहं तु क्वापि न स्थातुमुत्सहे हे विवेकिनि ॥५२३ ।।।।युग्मम् ।। १ आरनालः कांजिकस्तेन ।
नलेन कृतो दवदंतीत्यागः ।
|| १३०॥