________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२९॥
अष्टमं पर्व तृतीयः |सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
भिल्लास्तु ते ययुः सर्वे कांदिशीका दिशो दिशम् । तौ तु तानभिधावन्तौ रथादूरे बभूवतुः ।। ४९८ ।। इतश्च भिल्लैरपरैरपजहे तयो रथः । कुर्यात् पुरुषकारः किं दैवे वक्रत्वमीयुषि ॥ ४९९ ।। तस्यामटव्यां भीमायां भैमीमादाय पाणिना । पाणिग्रहोत्सवं तस्याः स्मारयन्नभ्रमन्नलः ।। ५०० ॥ वैदर्भी दर्भविद्धांघ्रिक्षरद्रुधिरबिंदुभिः । चकारारण्यवसुधामिन्द्रगोपांकितामिव ।। ५०१ ।। पट्टबंधः पुरा मूर्धन्यभूइँम्यास्तदा पुनः । नलेन पादयोश्चक्रे दारं दारं स्वमंशुकम् ।। ५०२ ॥ भीमजा वीजयामास श्रांतासीनां तरोस्तले । तालवृंतीकृतनिजपरिधानांचलो नलः ॥ ५०३ ।। नलः पलाशैः पालाशैः पुटं कृत्वा द्रुतं पयः । तामपीप्यत् पंजरस्थां शारिकामिव तर्षिताम् ।। ५०४ ।। पप्रच्छ भीमजाप्येवं कियत्यद्याप्यटव्यसौ । इह द्विधेव भवितुं कंपते हृदयं मम ।। ५०५ ॥ नलोऽप्याख्यदटव्येषा योजनानां शतं प्रिये । पंचैव योजनान्यस्या गतान्याश्रय धीरताम् ।।५०६ ।। एवं वार्तयतोस्तस्मिन्नरण्ये गच्छतोस्तयोः । सूर्योऽस्तमाप कथयन्निव संपदनित्यताम् ।।५०७ ॥ अवचित्याथ निर्वृतीकृत्य चाशोकपल्लवान् । दवदंत्याः कृते चक्रे नलस्तल्पमनल्पधीः ॥५०८ ॥ उवाच च प्रियां तल्पं शयित्वा त्वमलंकुरु । निद्रायाः समयं देहि दुःखविस्मृतिसख्यसौ ॥ ५०९ ।। भैम्यभ्यधादितो देव पश्चिमायामदूरतः । अस्ति संवसथो मन्ये गवां हंभारवं शृणु ।। ५१० ॥ १ इंद्रगोपः त्रींद्रियकीटविशेषः । २ वृंतरहितान् कृत्वा । ३ ग्रामः । लोके 'मेना' ।
नलदवदंत्योर्वने वसनम् ।
|| १२९॥