________________
अष्टमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥१२७॥
सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
पुनरारोपयामास स्तंभ तत्रैव तं नलः । उत्खातप्रतिरोपाख्यं शंसन्निव नृपव्रतम् ।। ४७४ ॥ दृष्ट्वा च नागराः प्रोचुर्नलस्याहो महबलम् । व्यसनं बलिनोऽप्यस्य प्रमाणं नियतिः खलु ।। ४७५ ।। क्रीडतोऽस्य नगोद्याने कूबरेण समं पुरा । महर्षिराजगामैको ज्ञानरत्नमहानिधिः ॥ ४७६ ।। स आख्यद्भाव्यसौ याम्यभरतार्धपतिनलः । पूर्वस्मिज्जन्मनि मुनेः क्षीरदानप्रभावतः ।। ४७७ ॥ पुरीमध्ये महास्तंभ हस्तपंचशतोन्नतम् । चालयिष्यति योऽवश्यं भरतार्धपतिः स हि ।। ४७८ ॥ द्वयं संवाद्यभूदेतद्भरतार्धपतिर्नलः । स्तंभश्च चालितोऽनेन दृष्टः स्वैरेव लोचनैः ।। ४७९ ।। नले जीवति न ह्यन्यः कोशलाया महीपतिः । भावीति यत्त्ववादीत्स विसंवादि बभूव तत् ।। ४८० ॥ वाग् दृष्टप्रत्यया तस्य भवित्री नान्यथाथवा । किं ज्ञायते यदि पुनर्न नदिष्यति कूबरः ।। ४८१ ।। कदाचित्स्याद्यदि पुनर्नल एवात्र भूपतिः । नलस्य पुण्यश्लोकस्य सर्वथा पुण्यमेधताम् ।। ४८२ ।। एवं लोकवचः श्रृण्वन् पुरी तत्याज कोशलाम् । रुदंत्या दवदंत्यानैः स्नाप्यमानरथो नलः ॥ ४८३ ॥ अभ्यधान्नैषधिः पत्नी क्व यामो देवि संप्रति । न हि स्थानमनुद्दिश्य प्रवृत्तिश्चेतनावताम् ।। ४८४ ।। वैदर्युवाच दर्भाग्रतीक्ष्णधीर्देव गम्यताम् । कुडिने तत्र मे तातोऽतिथीभूयानुगृह्यताम् ।। ४८५ ।। तथैवाथ नलादिष्टसंव्येष्टा प्रेरयन हयान् । आशिश्रायाश्रयो भक्तेर्दिशं कुडिनमंडिताम् ।। ४८६ ।। १ आदावुत्खातः पश्चात्प्रतिरोपस्तन्नामक राज्ञां व्रतम् । २ अरश्रुभिः । ३ सव्येष्टा सारथिः । ४ भक्तेराश्रयः स्थानं सारथिविशेषणम् ।
नलदवदंत्यो कुडिनपुरं प्रति प्रयाणम् ।
॥ १२७॥