________________
त्रिषष्टिशलाकापुरुषचरिते ॥१२६॥
अष्टमं पव तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ग्रामखेटादिदानेन पर्याप्तं ते नलं प्रति । तदर्पय सपाथेयं रथमेकं ससारथिम् ।। ४६१ ॥ इत्युक्तो व्यसृजभैमी नलेन सह कूबरः । अर्पयामास च रथं सपाथेयं ससारथिम् ।। ४६२ ।। नलोऽवदन्मया लक्ष्मीर्भरतार्धजयार्जिता । क्रीडया त्यज्यते येन तस्य मे का रथस्पृहा ।। ४६३ ॥ नलं प्रधानपुरुषाः प्रोचिरे चिरसेवकाः । वयमप्यनुयामस्त्वां कूबरस्तु निषेधति ।। ४६४ ।। तवानुजस्त्वया दत्तराज्यस्त्याज्यश्च नैष नः । अस्मिन् वंशे हि यो राजा स सेव्यो नः क्रमो ह्यसौ ।। ४६५ ।। ततो नागंतुमर्हामस्त्वया सह महाभुज । भार्या मंत्री सखा पत्तिर्दवदंत्येव तेऽधुना ।। ४६६ ॥ शिरिषसुकुमारांगीमंगीकृतसतीक्रमाम् । भीमजां पादचारेण कथं नेष्यसि वर्त्मनि ।। ४६७ ।। मार्ग तपनसंतापस्फुलिंगद्वालुकाकणम् । चुंबेदेषा कथं पादैः कमलोदरसोदरैः ।। ४६८ ।। तद्गृहाण रथं नाथ प्रसीदानुगृहाण नः । देव्या सममिहारोह क्षेमोऽध्वा स्वस्ति चास्तु वः ।। ४६९ ।। प्रधानुपुरुषैरेवं प्रार्थ्यमानो मुहुर्मुहुः । दवदंत्या सह नलो रथमारुह्य निर्ययौ ।। ४७० ॥ एकवस्त्रां दवदंती दृष्ट्वा स्नानोद्यतामिव । नागर्यो रुरुदुर्बाष्पजलक्लेदितकंचुकाः ॥ ४७१ ।। गच्छंश्च पुरमध्येन हस्तपंचशतोन्नतम् । ददर्शकं नलः स्तंभ दिग्गजालानसन्निभम् ।। ४७२ ।। राज्यभ्रंशोद्भवं दुःखमविदन्निव कौतुकात् । तं नलो लीलयोद्दधे कदलीमिव वारणः ।। ४७३ ।।
नलदवदंत्यो देशत्यागः।
|| १२६॥