________________
त्रिषष्टिशलाकापुरुषचरिते ।।१२५॥
अष्टम पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
उपार्जिता युद्धशतै तोत्तीर्णा मही तव । दुनोति देवात्यंतं मामश्रोतोगतसिक्थुवत् ।। ४४८ ।। तद्वाचं न हि शुश्राव ददर्शापि न तां नलः । अध्यारुढो मदावस्थां दशमीमिव वारणः ।। ४४९ ।। पत्या भृशमवज्ञाता रुदंती दवदंत्यथ । कुलामात्यादिकानूचे नलं द्यूतान्निषेधत ॥ ४५० ।। तेषामपि वचो नैव प्रबभूव मनागपि । नैषधेरौषधमिव सन्निपातवतो भृशम् ।। ४५१ ।। नलोऽनल स एवाभूते हारितभूरपि । ततः सार्धं दवदंत्याप्यंतःपुरमहारयत् ।। ४५२ ।। नलो हारितसर्वस्वस्ततश्चामुंचदंगतः । परिविव्रजिषुरिव सर्वमाभरणादिकम् ।। ४५३ ॥ कूबरोऽथ नलं प्रोचे मेह स्थास्त्यज मद्भुवम् । पित्रा राज्यं तवादायि ममादायि तु देवनैः ।। ४५४ ।। न लक्ष्मीर्दोष्मतां दूरे मा द्राप्सीरिति तं ब्रुवन् । सव्यानमात्रोपात्तस्वः प्रचचाल नलस्ततः ।। ४५५ ॥ नलानुलग्नां भैमी तु भीमवाक् कूबरोऽवदत् । द्यूते जितासि मा गास्त्वं मच्छुद्धांतमलंकुरु ।। ४५६ ।। अथामात्यादयः प्रोचुः कूबरं तु दुराशयम् । न स्पृशत्यन्यपुंछायामपि भैमी महासती । ४५७ ।। अवरोधे निधा मेमां ज्येष्ठपत्नी हि मातृवत् । शिशवोऽपि पठंत्येवं ज्येष्ठो भ्राता पिता यथा ॥ ४५८ ॥ कुरुषे चेत्प्रसदैवं तदा भीमसुता सती । करिष्यते भस्मसात्त्वां सतीनां नास्ति दुष्करम् ।। ४५९ ।। अनर्थ मा प्रपद्येथाः कोपयित्वा सतीमिमाम् । भर्तारमनुच्छन्ती प्रत्युतोत्साह्यतामियम् ।। ४६० ।। १ घूतेनोत्तीर्णा गतेत्यर्थः । २ दशमीति गजस्य मदावस्थाविशेषः । ३ संव्यानमुत्तरीय वस्त्रम् ।
द्यूते कूबरेण नलस्य पराजयः ।
|| १२५॥