________________
| अष्टमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥११८॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
इत्युक्त्वा वारि,गारमुपादाय तदंभसा । चिक्षेपानर्थशांत्यर्थं दवदंती छटात्रयम् ।। ३५९ ।। कृष्णराजोऽथ तद्वारिच्छटाच्छोटितमस्तकः । अंगार इव निर्वाणो निस्तेजास्तत्क्षणादभूत् ।। ३६० ॥ तदा शासनदेव्याश्च प्रभावात् कृष्णभूपतेः । करात् पपात निस्त्रिंशः पक्वपत्रमिव द्रुमात् ।। ३६१ ।। हतप्रभावो दध्यौ च कृष्णोऽहिरिव निर्गरः । न सामान्यो नलोऽमुष्मिन्न विमृश्य व्यभाषिषि ।।३६२ ।। तदयं प्रणिपातार्ह इति कृष्णो विचिंतयन् । प्राणमन्नलपादानां प्रेषणायातदूतवत् ।। ३६३ ॥ उवाच च विनीतः सन् ललाटघटितांजलिः । अविमृश्य कृतं स्वामिन् मूर्खस्यार्गः सहस्व मे ।। ३६४ ॥ नलोऽपि कृष्णं संभाव्य व्यसृजत् प्रणिपातिनम् । भीमोऽपि जामातृगुणैर्मेने पुण्यवती सुताम् ।। ३६५ ॥ भीमः सत्कृत्य सत्कृत्य नृपानन्यान् विसृज्य च । नलस्य दवदंत्याश्च व्यधादुपयमोत्सवम् ।। ३६६ ।। नलस्य विवाहमहे वृत्ते स्वविभवोचितम् । हस्त्यश्वादि ददौ हस्तमोचने भीमभूपतिः ।।३६७ ॥ आबद्धकंकणौ गोत्रजरतीगीतमंगलौ । गृहे चैत्यमवंदेतां तौ नवोढौ वधूवरौ ।। ३६८ ॥ महेन महता भीमनिषधौ वसुधाधवौ । कारयामासतुरथ तयोः कंकणमोचनम् ।।३६९ ।। ततश्च भीमो निषधं सपुत्रमपि भक्तिभाक् । सत्कृत्य व्यसृजत् किंचिदन्वगाच्च स्थिति सौ ।। ३७० ।। दवदंतीमनुपतिं यांतीमंबान्वशादिति । देहच्छायेव मा त्याक्षीर्व्यसनेऽपि पतिं सुते ।। ३७१ ।। १ निर्विषः । २ आगोऽपराधम् ।७ कुलमहत्तराभिः गीतम् मंगलम् ययोः तौ ।
दवदंत्या नलस्य वरणम् ।
|| ११८॥