________________
| अष्टमं पर्व तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥११७॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
कोशलानामधीशोऽयं निषधोऽरिनिषेधकृत् । ऋषभस्वामिकुलजो राजा संविदितोऽस्तु ते ॥३४६ ॥ अस्यैव तनयः सोऽयं नलो नाम महाबलः । तवास्त्वभिमतो यद्वा कूबरोऽयं नलानुजः ।। ३४७ ।। दवदंत्यपि तत्कालं नलस्य गलकंदले । स्वयंवरमजं न्यास्थल्लक्ष्मीरिव मुरद्विषः ।। ३४८ ।। अहो सुष्ठु वृतं सुष्ठु वृतमित्यंबरे गिरः । खेचराणां प्रादुरासन वृते सति तया नले ।। ३४९ ।। अथैकं खड्गमाकृष्य धूमकेतुमिवापरम् । कृष्णराजकुमारो द्रागुत्थाय नलमाक्षिपत् ।। ३५० ॥ स्वयंवरसक् क्षिप्तेयं दवदंत्या वृथैव ते । नह्येतां मयि सत्यन्यः कश्चिदुद्वोढुमीश्वरः ।। ३५१ ।। तन्मुंच भीमतनयां नो वा भव धृतायुधः । कृष्णराजमनिर्जित्य भविष्यसि कृती कथम् ।। ३५२ ।। स्मयमानो नलोऽवादीदरे क्षत्रियपांसन । दवदंत्या वृतो न त्वमिति किं दूयसे मुधा ।। ३५३ ।। वृतोऽस्मि दवदंत्याहं तदिमां परयोषितम् । इच्छस्यघमनादृत्य तथापि न भवस्यरे ।। ३५४ ।। इति निस्त्रिशमाकृष्य नर्तयामास पाणिना । नलोऽनल इवासह्यतेजाः क्रोधधुताधरः ।। ३५५ ॥ नलस्य कृष्णराजस्य चानीकमुभयोरपि । सद्यः संवर्मयामास धृतमर्माविधायुधम् ।। ३५६ ।। दध्यौ च दवदंत्येवं धिगहो मन्निबंधनः । उपस्थितोऽयं प्रलयः क्षीणपुण्या किमस्म्यहम् ।। ३५७ ।। आर्हती यद्यहं तर्हि मातः शासनदेवते । नलोऽस्तु विजयी क्षेममस्तु चानीकयोर्द्वयोः ।। ३५८ ॥ १ कृष्णस्य । २ तिरस्कृतवान् । ३ अघं पापम् । ४ धृतं मर्म विध्यतीति मर्माविधायुधं येन तत् । ५ अहं निबंधन कारणं यस्य सः ।
दवदंत्या नलस्य
वरणम् ।
|| ११७॥