________________
त्रिषष्टिशलाकापुरुषचरिते ॥११६॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
कज्जलश्यामलकचां नीरंधकुचमंडलाम् । वस्त्राणि रंभागर्भत्वक्सगर्भाणि च बिभ्रतीम् ।। ३३५ ।। स्वच्छश्रीचंदनरसविलिप्तामायतेक्षणाम् । दवदंती नृपाः प्रेक्ष्य चक्षुस्तत्रैव चिक्षिपुः ॥ ३३६ ॥
॥चतुर्भिः कलापकम् ।। अंतःपुरप्रतीहारी ततश्च नृपशासनात् । तस्याः शंसितुमारेभे नामग्राहं महीपतीन् । ३३७ ।। शिशुमारपुरायातो जितशत्रुनृपात्मजः । ऋतुपर्णनरेन्द्रोऽयं देवि संभाव्यतां दृशा ।। ३३८ ।। इक्ष्वाकुवंशतिलको गुणरत्ननिधानभूः । चंद्रभूश्चंद्रराजोऽयममुकं किं वुवूर्षसि ।। ३३९ ।। चपेशो भोगवंशोऽयं सुबाहुर्धरणेन्द्रभूः । अमुं वृणीष्व जाह्नव्याः सेव्यसे सीकरानिलैः ।। ३४० ।। राजा रोहीतकेशोऽयं पावनिश्चंद्रशेखरः । द्वात्रिंशद्ग्रामलक्षाधिपतिस्ते किमु रोचते ।। ३४१ ।। क्ष्मापतिः शशलक्ष्मायं जयकेशरिनंदनः । श्रीनंदनसमो मूर्त्या किमाकर्षति ते मनः ॥ ३४२ ॥ जनुसूर्यज्ञदेवोऽयमादित्यकुलमंडनः । नृपतिर्भृगुकच्छेशो मेहेच्छेऽमुं किमिच्छसि ॥ ३४३ ॥ भरतेशकुलोत्तंसो नृपोऽयं मानवर्धनः । विश्वप्रतीतं तदमुं पतिं वृणु पतिवरे ।। ३४४ ।। कुसुमायुधपुत्रोयं नृपतिर्मुकुटेश्वरः । किमस्य रोहिणीवेन्दोः पत्नी भवितुमर्हसि ॥ ३४५ ।। १ सीकरा जलकणास्तन्मिश्रवायुमिः । २ रोहीतकदेशस्य राजा । ३ पवनपुत्रः । ४ लक्ष्मीपुत्रसमः कामसम इत्यर्थः । ५ महतीच्छा यस्यास्तत्संबुद्धौ।
| दवदंत्या स्वयंवरः।
|| ११६॥