________________
अष्टमं पर्व
तृतीयः
त्रिषष्टिशलाकापुरुषचरिते ॥११५॥
सर्गः | श्रीअरिष्ट| नेमिजिनचरितम् ।
राजानोऽथाययुस्तत्र स्पर्धमाना महर्द्धिभिः । दिव्यालंकारवसनाः शक्रसामानिका इव ।। ३२३ ॥ सर्वे निषेदुर्मंचेषु विपंचितवपुःश्रियः । नानाविधाभिश्चेष्टाभिः स्पष्टवैदग्ध्यबंधुराः ।। ३२४ ।। कृतोत्तरीयपर्यंकश्चलद्दलमनोरमम् । करेण लीलाकमलं लालयामास कश्चन ।। ३२५ ॥ सुगंधिमल्लिकापुष्पाण्याजघ्रौ कोऽपि भृगवत् । मन्मथस्य यशोराशिवर्णिकामिव निर्मलाम् ।। ३२६ ।। करेणोल्लालयामास कश्चित्कुसुमकंदुकम् । मृगांकमंडलं व्योम्नि स्रष्टुकाम इवापरम् ।। ३२७ ।। व्यलिखल्लीलया पाणी पाणिजाग्रैः क्षणे क्षणे । कोऽपि स्वामासुरी सांद्रसारंगमदपंकिलाम् ।। ३२८ ।। दीप्तांगुलीयमणिना पाणिना दृढमुष्टिना । मुष्टिग्रस्तदंतमुष्टिं छुरी कश्चिदनीनृतत् ।। ३२९ ॥ छेकः केतकपत्राणि दारं दारमुदारधीः । जग्रंथ कोऽपि कमलं कैमलाकमलोपमम् ।।३३० ।। कश्चिदामलकस्थूलमुक्ताफलविनिर्मितम् । कंठावलंबितं हारं मुहुः पस्पर्श पाणिना ।। ३३१ ॥ देवतादेवतागारमिव तं वरमंडपम् । भूषयंती दवदंत्यथाययौ पितुराज्ञया ।। ३३२ ।। अलंकरणसंदोहैर्मुक्तामणिविनिर्मितैः । अलंकृतांगावयवामुत्फुल्लामिव मल्लिकाम् ।। ३३३ ।। प्रसरत्सारणीवारितरंगकुटिलालकाम् । बिभ्राणां तिलकं भाले युवराजं रवेरिव ।। ३३४ ।। १विपचिता विस्तारिता वपुःश्रीः शरीरशोभा यैस्ते । २ नखाग्रैः । ३ श्मश्रूम् । ४ मुष्टौ ग्रस्तो धारितो दंतमुष्टिदैतनिर्मितो मुटियस्याच्छुर्यास्ताम् । ५ चतुरः । ६ लक्ष्मीकमलसशम् । - उर्मिका, भाषायाम् 'वीटी'
-%ARSHAHARASHARASHTRA
| दवदंत्या स्वयंवरः।
|| ११५॥