________________
त्रिषष्टिशलाकापुरुषचरिते ||११४॥
अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
देव्युवाच च हे वत्से प्रतिमा भाविनोऽर्हतः । एषा श्रीशांतिनाथस्य पूजनीया त्वयानिशम् ।। ३१० ॥ इत्युक्त्वांतर्दधे देवी प्रतिमां दवदंत्यपि । निनायोत्फुल्लनयना वंदित्वा निजवेश्मनि ।। ३११ ।। रममाणा वयस्याभिः सुदंती दवदंत्यथ । यौवनं पावनं प्राप प्रपां लावण्यवारिणः ।। ३१२ ।। राजा राज्ञी च तां दृष्ट्वा कन्यामन्यूनयौवनाम् । तद्विवाहोत्सवं द्रष्टुमभूतामुत्कमानसौ । ३१३ ।। तस्यास्तत्तद्गुणगणानुरुपवरचिंतया । पितरावत्यदूयेतामंतः शल्यातुराविव ।।३१४ ।। क्रमेण दवदंत्यष्टादशवर्षा बभूव च । न तूपलेभे भूपालस्तद्योग्यं प्रवरं वरम् ।। ३१५ ॥ स्वयंवरोऽतिप्रौढानामनूढानां हि योषिताम् । युक्त इत्यादिशदूतान् राज्ञामाहूतये नृपः ।। ३१६ ।। राजानो राजपुत्राश्च युवानः परमर्द्धयः । आययुस्त्वरितं तत्र स्पर्धमाना मिथः श्रिया ॥३१७ ॥ दृश्यमानैः करटिभिरसंख्यैर्भूभुजां तदा। उपत्यकेव विध्यारोः कुडिनोपांतभूरभूत् ।। ३१८ ॥ निषधोऽपि हि तत्रागान्नृपतिः कोशलेश्वरः । नलेन कूबरेणापि पुत्राभ्यां सहितस्तदा ॥३१९ ॥ सर्वेषां स्वागतं राज्ञामभियानपुरःसरम् । चकार कुडिनाधीशोऽतिथीनामुचितं ह्यदः ।। ३२० ।। भीमोऽथ कारयामास स्वयंवरणमंडपम् । पालकस्य विमानस्यानुजन्मानमिवर्द्धिभिः ।। ३२१ ॥ मंचांश्च मंडपस्यांतर्विमानाभानकारयत् । प्रत्येकं स्थापितस्वर्णसिंहासनमनोरमान् ।।३२२ ॥ १ जलदानस्थानम् 'परब' इति भाषायाम् । २ गजैः । ३ विमानसशान् ।' भाषायाम् 'तलेटी' । + समीपस्थः ।
शासनदेवतया दवदंत्यै जिनप्रतिमा ऽर्पणम् । नलदमयंती | पूर्वभवचरिते धन्य धूसरीभवः ।
||| ११४॥