SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ||११३॥ अष्टमं पर्व तृतीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् । सुगंधिमुखनिश्वासभ्रमद्भमरधोरणिः । दिने दिने वर्धमाना साभवद्रिखणक्षमा ।। २९७ ॥ अपि मातृसपत्नीनां सा सौम्यमुखपंकजा । करात्करं संचचार पुष्पात्पुष्पमिवालिनी ।। २९८ ॥ अंगुष्ठमध्यमास्फोटधृततालाः पदेपदे । तां धात्र्योऽरमयन् वक्त्रतिमिलावाद्यवादनैः ।। २९९ ।। रणज्झणिति कुर्वद्भ्यां नूपुराभ्यां पुरस्कृता । क्रमेण कर्तुमारेभे पादचंक्रमणं च सा ।। ३०० ॥ रेमे रमेव सा मूर्ता भूषयंती गृहांगणम् । तत्प्रभावाद्धि निधयः प्रत्यक्षाः क्ष्माभुजोऽभवन् ।। ३०१ ।। संप्राप्ते चाष्टमे वर्षे तां कन्यामार्पयन्नृपः । कलाचार्यस्य वर्यस्य कलाग्रहणहेतवे ।। ३०२ ।। साक्षिमात्रमुपाध्यायोऽभवत्तस्याः सुमेधसः । कलाः संचक्रमुस्तस्यां ह्यादर्श प्रतिबिंबवत् ।। ३०३ ॥ साभूदधीतिनी कर्मप्रकृत्यादिषु धीमती । तस्याः पुरश्च स्याद्वादाक्षेपकः कोऽपि नाभवत् ।। ३०४ ॥ कन्यां कलाकलापांबुराशेस्तां पारश्वरीम् । वागीश्वरीमिव पितुः पार्श्वे गुरुरथानयत् ।। ३०५ ॥ सा गुरोराज्ञया सर्वं कलाकौशलमात्मनः । सम्यक् प्रदर्शयामास गुणारामैकसारणिः ।। ३०६ ॥ तथा श्रुतार्थप्रावीण्यं प्रकट्यकृत सा पितुः । यथा सोऽप्यभवत्सम्यग्दर्शनाढ्यनिदर्शनम् ।। ३०७ ।। सहस्राधिकलक्षेण दीनाराणां नरेश्वरः । कलाचार्य स्वदुहितुः पूजयित्वा विसृष्टवान् ।। ३०८ ।। दवदंत्याश्च पुण्यातिशयान्निर्वृतिदेवता । साक्षाद्भूयाहत्प्रतिमामर्पयामास कांचनीम् ।। ३०९ ।। १ चलनयोग्या । २ वक्त्रतिमिला नाम वाद्यं तस्य वादनैः । ३ अधीतमनयेति अधीतिनी । ४ शासनदेवता । |दवदंत्या | यौवनम् कामाग्रहणं च। || ११३॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy